SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Jain Education 125 द्धंसन्ते स्म धनुर्लताः । शिञ्जिन्यो जन्यकाङ्क्षाभिः, साकं केषांचिदत्रुटन् ॥ ८० ॥ प्राणैः सार्धं पलायन्त, युग्याः केषांचन द्रुतम् । विक्रमैः सह चक्राणि, परेषां खण्डशोऽभवन् ॥ ८१ ॥ छिद्यन्ते स्म सहान्येषां वर्माणि रणकर्मणा । सार्धं रोषेण केषांचि - दधः सारथयोऽगमन् ॥ ८२ ॥ समं महिना केषांचि - दातपत्राणि दुद्रुवुः । सहान्येषामहंकारैः, कूबरीः कणशोऽभवन् || ८३ || पार्श्वानि जज्ञिरेऽन्येषां शून्यानि मनसा समम् । ओजसा सह केषांचित्, सस्रंसे कार्मुकं करात् ॥ ८४ ॥ वल्गन्ति स्मसमंकीय, केषामप्यसृगूर्मयः । भेजे भुजैः सहान्येषां रथोत्सङ्गेऽखरिक्तताम् ।। ८५ ।। इत्थमुत्थापितानन्य - सामान्यशरकर्मणाम् । पाण्डवानां चमूश्चक्रे, गाङ्गेयेनाकुलाकुला ।। ८६ ।। धृष्टद्युम्नोऽपि दोर्द्युम्न निम्नितारातिविक्रमः । कौरवीये बले भूपान्, संजहार सहस्रशः ॥ ८७ ॥ शैवलिन्यः कचै रक्तोत्पलिन्यः सुभटाननैः । रथस्तोमैस्तरीमत्यो, मीनवत्यः कराङ्घ्रिभिः ।। ८८ ।। सितच्छत्रैः कुमुद्वत्यो, वेतस्वत्यश्च केतुभिः । प्रावर्तन्त ततः कूलं - कपाः शोणितसिन्धवः ।। ८९ ।। ( युग्मम्) उच्छृङ्खलं चर्तेन्तीना - मसृग्जलधियोषिताम् । प्रहारपतिता मार्गे, शैलायन्ते स्म दन्तिनः ॥ ९० ॥ केतुदण्डमयी कापि, चापदण्डमय कचित् । तोत्रदण्डमयी क्वापि, छत्रदण्डमयी क्वचित् ॥ ९१ ॥ तुरङ्गाङ्गमयी कापि, क्वचिद्विपवपुर्मयी । वीरवमयी कापि, रणक्षितिरवैक्षत ।। ९२ ।। ( युग्मम् ) प्रहारपाटवात् कामं, नभोऽङ्कमभिधावितैः । रक्तैः सक्तैरिवाताम्रो, भास्वानस्तमुपाययौ ॥ ९३ ॥ त्यजन्ननायुधं षण्डं, योषितं पूर्वपोषितम् । वित्रस्तं कातरं दीनं, पराञ्चमभयार्थिनम् ॥ ९४ ॥ व्योमान्तव्यापिभिस्तैस्तैः, शरासारैररुंतुदैः । भीष्मः परःशतान् भूषा - नादिनान्तादपातयत् ।। ९५ ।। ( युग्मम् ) ततः स १ युद्धकाक्षाभिः | २ कूवरः - सारथिनिषद्नस्थानम् । ३ द्युम्नं - बलम् । ४ याचमानानाम् । ५ तोत्रं - वंशयष्टिः । ६ मृतप्रायम् । For Personal & Private Use Only onal www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy