SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Jain Education 125 द्धंसन्ते स्म धनुर्लताः । शिञ्जिन्यो जन्यकाङ्क्षाभिः, साकं केषांचिदत्रुटन् ॥ ८० ॥ प्राणैः सार्धं पलायन्त, युग्याः केषांचन द्रुतम् । विक्रमैः सह चक्राणि, परेषां खण्डशोऽभवन् ॥ ८१ ॥ छिद्यन्ते स्म सहान्येषां वर्माणि रणकर्मणा । सार्धं रोषेण केषांचि - दधः सारथयोऽगमन् ॥ ८२ ॥ समं महिना केषांचि - दातपत्राणि दुद्रुवुः । सहान्येषामहंकारैः, कूबरीः कणशोऽभवन् || ८३ || पार्श्वानि जज्ञिरेऽन्येषां शून्यानि मनसा समम् । ओजसा सह केषांचित्, सस्रंसे कार्मुकं करात् ॥ ८४ ॥ वल्गन्ति स्मसमंकीय, केषामप्यसृगूर्मयः । भेजे भुजैः सहान्येषां रथोत्सङ्गेऽखरिक्तताम् ।। ८५ ।। इत्थमुत्थापितानन्य - सामान्यशरकर्मणाम् । पाण्डवानां चमूश्चक्रे, गाङ्गेयेनाकुलाकुला ।। ८६ ।। धृष्टद्युम्नोऽपि दोर्द्युम्न निम्नितारातिविक्रमः । कौरवीये बले भूपान्, संजहार सहस्रशः ॥ ८७ ॥ शैवलिन्यः कचै रक्तोत्पलिन्यः सुभटाननैः । रथस्तोमैस्तरीमत्यो, मीनवत्यः कराङ्घ्रिभिः ।। ८८ ।। सितच्छत्रैः कुमुद्वत्यो, वेतस्वत्यश्च केतुभिः । प्रावर्तन्त ततः कूलं - कपाः शोणितसिन्धवः ।। ८९ ।। ( युग्मम्) उच्छृङ्खलं चर्तेन्तीना - मसृग्जलधियोषिताम् । प्रहारपतिता मार्गे, शैलायन्ते स्म दन्तिनः ॥ ९० ॥ केतुदण्डमयी कापि, चापदण्डमय कचित् । तोत्रदण्डमयी क्वापि, छत्रदण्डमयी क्वचित् ॥ ९१ ॥ तुरङ्गाङ्गमयी कापि, क्वचिद्विपवपुर्मयी । वीरवमयी कापि, रणक्षितिरवैक्षत ।। ९२ ।। ( युग्मम् ) प्रहारपाटवात् कामं, नभोऽङ्कमभिधावितैः । रक्तैः सक्तैरिवाताम्रो, भास्वानस्तमुपाययौ ॥ ९३ ॥ त्यजन्ननायुधं षण्डं, योषितं पूर्वपोषितम् । वित्रस्तं कातरं दीनं, पराञ्चमभयार्थिनम् ॥ ९४ ॥ व्योमान्तव्यापिभिस्तैस्तैः, शरासारैररुंतुदैः । भीष्मः परःशतान् भूषा - नादिनान्तादपातयत् ।। ९५ ।। ( युग्मम् ) ततः स १ युद्धकाक्षाभिः | २ कूवरः - सारथिनिषद्नस्थानम् । ३ द्युम्नं - बलम् । ४ याचमानानाम् । ५ तोत्रं - वंशयष्टिः । ६ मृतप्रायम् । For Personal & Private Use Only onal www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy