SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अजमूद्धजाः पाण्ड पाण्डवपरित्रम् ॥ र्गः १३॥ ॥२२४॥ 124 रेजिरे ।। ६४ ।। स्थानां पतयः केतु-दुकूलैरनिलाकुलैः । चेरुराहयमानाना-मिव प्रतिचमुरथान् ॥६५॥ ऊर्ध्वजमूर्द्धजाः शौर्यात् , कोपारुणितचक्षुषः । वल्गन्ति स्म मुहुः काल-किंकरा इव पत्तयः ।। ६६ ॥ | कौरव. बले द्रौपदिरेकस्मि-नन्यस्मिञ्जाह्नवीसुतः। सुरान् कुमारखद्योधान् , योधयामास वैरिभिः ॥ ६७ ॥ ततः शौर्यप्रवालानि, वीरव्रतनवाकुराः । उत्साहकन्दलोद्भेदाः, क्षत्रधर्माग्रसूचयः ॥ ६८॥ उत्तरश्चाभिमन्युश्च, पाश्चालाश्च रणाङ्गणम् । मुहुर्जगाहिरेऽन्येऽपि, कुमारा नवबाहवः ॥ ६९ ॥ (युग्मम् ) पराञ्चश्चक्रिरे वीर-शौण्डीरास्तच्छिलीमुखैः । श्वापदा | इव शार्दूल-वायुभिर्नासिकंधमैः ॥ ७० ॥ मद्रराजस्य शल्यस्य, वैराटेरुत्तरस्य च । जज्ञेऽथ समरो घोरः, स्यन्दनस्थगजस्थयोः ॥ ७१ ॥ श्रुतिनिर्भेदिनिर्हादा-नभिद्योतयतो दिवम् । अशनीनिव जीमूतौ, तौ महेषूनमुश्चताम् ॥ ७२ ॥ अम्बरेऽप्यमरस्त्रीणां, कुतूहलितयोदृशोः । मानसस्य च भीतस्य, तदाऽभूत् कलहो महान् ॥ ७३ ।। उत्तरेणातिदुर्वार, शरासारं वितन्वता । तिरश्चक्रे क्षणं शल्य-स्तोयदेनेव भानुमान् ॥ ७४ ॥ जितानेकाहवः शल्यो, हादिन्येव गिरिं हरिः । वैराटिं नवसंस्फोट-सक्तं शक्त्या न्यपातयत् ॥ ७५ ॥ मन्थानगिरिनिर्मथ्य-मानार्णवरवोपमः । आसीत् कौन्तेयसैन्येषु, हाकारतुमुलो रवः ॥ ७६ ॥ अथ प्रथितकर्माणो, धर्मसूनुधनुर्धराः । शरैः सेनानिभोगीनैः, कामं भीष्ममयोधयन् ।। ७७॥ देवव्रतशरवाताः, शत्रुसांतापिकास्ततः । दिशः सर्वाः क्षयाम्भोद-धारासारा इवास्तृणन् ॥ ७८ ॥ अथ केषांचिदक्षस्य, भङ्गो मानैः सहाभवत् । परेषामपतन् वाहु-सौष्ठवैः सह केतवः ॥ ७९ ।। समं सवेन केषांचि(१ 'उद्धृतमूर्द्धजाः' इति युक्तं प्रतिभाति ।) २ विद्युतः । ३ वज्रेण । ४ भीष्मशरसमूहाः । Ho|२२४॥ Jan Education international For Personal Private Use Only n ary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy