________________
123
पुञ्जयन्त इवाऽऽशान्तान् , संवृण्वन्त इवाम्बरम् । चेरु सीरवीरास-ग्मात्रभोजनिकाः शराः ॥ ५० ॥ पत्रिणां पत्रनिर्हादैः, शिञ्जिनीनां च शिञ्जितैः । क्ष्वेडामिर्दोभृतां चाभूत् , संभ्रमक्षुभितं जगत् ॥ ५१ ॥ निशातविशिखव्याजा-यस्यो रसना इव | समं सर्वान् भटानत्तुं, प्रेतभर्तुर्जजृम्भिरे ।। ५२ ॥ अन्योन्यास्फालनोद्भत-स्फुलिङ्गैर्मार्गणा अपि । कोपादस्वमिवाग्नेयमातेनुरितरेतरम् ॥ ५३ ॥ खेचरैः खेचराः खड्ग-पाणिभिः खङ्गपाणयः । सादिभिः सादिनश्चाधो-रणैराधोरणा अपि ॥ ५४॥ रथारूढै रथारूढा, अप्युच्चैः समगंसत । द्वन्द्वयुद्धमिति स्वैरं, शौण्डीराणामवर्तत ॥ ५५ ॥ (युग्मम् ) मा स्म रश्मीषवोऽस्यापि, पतन् योधेष्विति ध्रुवम् । रेणवोऽतिरयन् भानु, रथप्रधिभिरुत्थिताः ।। ५६ ॥ बंहीयसि तदा पांशी, रणोत्सवमिवेक्षितुम् । ललम्बेऽम्बरमभ्यर्णी-बभूवुः ककुभोऽखिलाः॥५७॥ शराशरिपरित्रासा-दिव व्योम्नि पलायिताः। विद्याधरविमानान्त-राविशन् रणरेणवः ।। ५८ ॥ निर्माय नूतनां सिद्ध-कामुका इव यामिनीम् । पांसवो दिक्पुरंध्रीणा-माकृषन्नम्बराञ्चलम् ॥ ५९ ॥ घनानौ(नौ)पम्यबन्धून्नः, पङ्कयन्तितमाममी । इतीव शमयामासुः, पांमून् मदजलैर्गजाः ।।६०॥ कर्णतालच्छला. चाल-वृन्तैरिव मतङ्गजाः। रजः पराजयांचक्रुः, संपरायान्तरायकृत् ॥ ६१॥ दन्तिनामनिलोद्भूता, रेजुः सिन्दूररेणवः । अन्तःकोपहुताशस्य, ज्वाला बहिरिवोत्थिताः ॥ ६२ ॥ धावन्तः सिन्धुराः कामं, प्रतिस्तम्बेरमान् प्रति । उत्पातपवनोक्षिप्ताः, शैला इव चकासिरे ॥ ६३ ॥ वाजिनोऽप्याजिधौरेया, नवधोरितबन्धुराः । मनांसीवाश्ववाराणा-मश्वरूपेण
१ दिगन्तान् । २ प्रत्यञ्चानाम् । ३ “घनानः पश्यतां बन्धून ," "घनानौ पश्य बन्धून्नः" इति प्रतिद्वयपाठी, मूलपाठश्च प्रतिद्वयेऽस्ति । ४ धोरित-गतिविशेषोऽश्वस्य ।
For Personal Private Use Only
www.sainelibrary.org