________________
यस्याङ्कः किं शरास्तस्मिन् , पतेयुमें पितामहे ? ॥ २१ ॥ अश्वत्थाम्नोऽपि नाऽऽम्नायं, तथा चापस्य यो ददौ । वात्सVल्यान्मे यथाऽदत्त, तं गुरुं हन्मि किं रणे ? ॥ २२ ॥ बान्धवा बान्धवा एव, बाढमप्यपकारिणः । एतेष्वपि मदिष्वासः,
संदधत्रपते शरान् ।। २३ ।। ___अथोजगार कंसारि-ननु वीरावतंस ! ते । कृपानवाङ्गुरः कोऽयं, क्षत्रधर्मविलक्षणः ? ॥ २४ ॥ गुरौ पितरि पुत्रे वा, बान्धवे वा धृतायुधे । वीतशत प्रहर्तव्य-मिति हि क्षत्रियव्रतम् ।। २५ ॥ बान्धवा बान्धवास्ताव-धावत् परिभवन्ति न । पराभवकृतस्तूचैः, शीर्षच्छेद्या भुजावताम् ।। २६ ॥ "वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् । क्षत्रियश्च रिपुक्षेपं, न क्षमन्ते कदाचन ॥ २७॥"
दायादा अपि हन्तव्या, वहन्तो वैरिगृह्यताम् । “तमोगृह्यानिगृह्णाति, ग्रहान् किं न ग्रहायणीः ?" || २८ ॥ भ्रातुविश्वैकवानुष्के, सत्यपि त्वयि बान्धवे । यत् कृषन्ति द्विषो लक्ष्मी, सापि ते महती त्रपा ।। २९ ॥ तत् कृपां शिथिलीकृत्य, चापमादाय पाणिना । आधिपत्यं भुवो भूयः, स्वभ्रातुर्दातुमर्हसि ॥ ३० ॥ किं चामीषामुपेतोऽय-मन्तः स्वैरेव कर्मभिः । त्वं तु केवलमेतस्मिन् , हेतुमात्रं भविष्यसि ।। ३१ ॥ अवश्यमव्यलीकस्य, वधः पापाय जायते । धनुष्मन्तो जिघांसन्ति, जिघांसन्तं पुनः परम् ।। ३२ ॥ तद्ग्रहाण करे बाणान् , चापमारोपय द्रुतम् । घानिष्यन्तेऽरिभिः पश्य, पश्यतस्तव बान्धवाः ॥ ३३ ॥ इत्यादिष्टामुपश्रुत्य, विष्टरश्रवसो गिरम् । समुत्तस्थौ शनैः पार्थः, कार्मुकं कलयन करे ॥ ३४ ॥
१ शत्रुपक्षम् । २ अनपराधिनः ।
For Personal Private Use Only