SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ यस्याङ्कः किं शरास्तस्मिन् , पतेयुमें पितामहे ? ॥ २१ ॥ अश्वत्थाम्नोऽपि नाऽऽम्नायं, तथा चापस्य यो ददौ । वात्सVल्यान्मे यथाऽदत्त, तं गुरुं हन्मि किं रणे ? ॥ २२ ॥ बान्धवा बान्धवा एव, बाढमप्यपकारिणः । एतेष्वपि मदिष्वासः, संदधत्रपते शरान् ।। २३ ।। ___अथोजगार कंसारि-ननु वीरावतंस ! ते । कृपानवाङ्गुरः कोऽयं, क्षत्रधर्मविलक्षणः ? ॥ २४ ॥ गुरौ पितरि पुत्रे वा, बान्धवे वा धृतायुधे । वीतशत प्रहर्तव्य-मिति हि क्षत्रियव्रतम् ।। २५ ॥ बान्धवा बान्धवास्ताव-धावत् परिभवन्ति न । पराभवकृतस्तूचैः, शीर्षच्छेद्या भुजावताम् ।। २६ ॥ "वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् । क्षत्रियश्च रिपुक्षेपं, न क्षमन्ते कदाचन ॥ २७॥" दायादा अपि हन्तव्या, वहन्तो वैरिगृह्यताम् । “तमोगृह्यानिगृह्णाति, ग्रहान् किं न ग्रहायणीः ?" || २८ ॥ भ्रातुविश्वैकवानुष्के, सत्यपि त्वयि बान्धवे । यत् कृषन्ति द्विषो लक्ष्मी, सापि ते महती त्रपा ।। २९ ॥ तत् कृपां शिथिलीकृत्य, चापमादाय पाणिना । आधिपत्यं भुवो भूयः, स्वभ्रातुर्दातुमर्हसि ॥ ३० ॥ किं चामीषामुपेतोऽय-मन्तः स्वैरेव कर्मभिः । त्वं तु केवलमेतस्मिन् , हेतुमात्रं भविष्यसि ।। ३१ ॥ अवश्यमव्यलीकस्य, वधः पापाय जायते । धनुष्मन्तो जिघांसन्ति, जिघांसन्तं पुनः परम् ।। ३२ ॥ तद्ग्रहाण करे बाणान् , चापमारोपय द्रुतम् । घानिष्यन्तेऽरिभिः पश्य, पश्यतस्तव बान्धवाः ॥ ३३ ॥ इत्यादिष्टामुपश्रुत्य, विष्टरश्रवसो गिरम् । समुत्तस्थौ शनैः पार्थः, कार्मुकं कलयन करे ॥ ३४ ॥ १ शत्रुपक्षम् । २ अनपराधिनः । For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy