SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jain Educatio 119 चिद्वेत्रपाणिभिः । धियन्ते स्म धनुष्मन्तः, प्रथमप्रधनेच्छवः || ५०२ ।। पीयूषांशुमयं मुखैः कुवलयश्रेणीमयं लोचनैर्नानारत्नमयैर्विमाननिवहैः संध्याम्बुदालीमयम् । कुर्वद्भिः कुरुपाण्डवेयसमरन्यालोकन व्याकुलै-र्गान्धर्वा - मर- खेचरैर्वियदलंचक्रे तदानीं क्षणात् ॥ ५०३ ॥ इति मलघारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दूतसोमकागमनप्रयाणकबलवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥ अथ त्रयोदशः सर्गः । अथैवं समयश्चक्रे, सैनिकैरुभयैरपि । नावंहारे प्रहर्तव्यं, नापशस्त्रे न च स्त्रियाम् ॥ १ ॥ ततः प्रौढरथारूढौ, वृकोदरकिरीटिनt । धृष्टद्युम्नस्य सेनान्य- चक्रतुश्चक्ररक्षिताम् || २ || अथ प्रतिपताकिन्या, भटानेकैकशः पुरः । सूतं पप्रच्छ पक्षीन्द्र - केतनं कपिकेतनः ॥ ३ ॥ ततः प्रत्येकमालोक्य, प्रतिपन्थिवरूथिनीम् । अभ्यधान्माधवो वाजि - केतुकीर्तनपूर्वकम् ॥ ४ ॥ एष तालध्वजः कालः, साक्षादिव रणक्षितौ । सेराहतुरगो गङ्गा- सूनुः सर्वकषो द्विषाम् ॥ ५ ॥ द्रोणः सोऽयमविद्राण - कीर्तिः कलशकेतनः । शोणसप्तिः समित्सर्व-धुरीणधनुरूर्जितः ।। ६ ।। इतश्चायं कृपाचार्यो, ध्वजीकृतक १ प्रधनं युद्धम् । २ युद्धभूमेरन्यत्र शिबिरस्थाने । ( ३ पीयूषवर्णाश्वः । ) ४ रक्ताश्वः । For Personal & Private Use Only Donal www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy