SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jain Educatio 119 चिद्वेत्रपाणिभिः । धियन्ते स्म धनुष्मन्तः, प्रथमप्रधनेच्छवः || ५०२ ।। पीयूषांशुमयं मुखैः कुवलयश्रेणीमयं लोचनैर्नानारत्नमयैर्विमाननिवहैः संध्याम्बुदालीमयम् । कुर्वद्भिः कुरुपाण्डवेयसमरन्यालोकन व्याकुलै-र्गान्धर्वा - मर- खेचरैर्वियदलंचक्रे तदानीं क्षणात् ॥ ५०३ ॥ इति मलघारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दूतसोमकागमनप्रयाणकबलवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥ अथ त्रयोदशः सर्गः । अथैवं समयश्चक्रे, सैनिकैरुभयैरपि । नावंहारे प्रहर्तव्यं, नापशस्त्रे न च स्त्रियाम् ॥ १ ॥ ततः प्रौढरथारूढौ, वृकोदरकिरीटिनt । धृष्टद्युम्नस्य सेनान्य- चक्रतुश्चक्ररक्षिताम् || २ || अथ प्रतिपताकिन्या, भटानेकैकशः पुरः । सूतं पप्रच्छ पक्षीन्द्र - केतनं कपिकेतनः ॥ ३ ॥ ततः प्रत्येकमालोक्य, प्रतिपन्थिवरूथिनीम् । अभ्यधान्माधवो वाजि - केतुकीर्तनपूर्वकम् ॥ ४ ॥ एष तालध्वजः कालः, साक्षादिव रणक्षितौ । सेराहतुरगो गङ्गा- सूनुः सर्वकषो द्विषाम् ॥ ५ ॥ द्रोणः सोऽयमविद्राण - कीर्तिः कलशकेतनः । शोणसप्तिः समित्सर्व-धुरीणधनुरूर्जितः ।। ६ ।। इतश्चायं कृपाचार्यो, ध्वजीकृतक १ प्रधनं युद्धम् । २ युद्धभूमेरन्यत्र शिबिरस्थाने । ( ३ पीयूषवर्णाश्वः । ) ४ रक्ताश्वः । For Personal & Private Use Only Donal www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy