________________
.
कौरवसैन्यसञ्जता॥
116 पीपाण्डव केचित्तल्पं चिरादौन-श्रुतशङ्खस्वना अपि ॥ ४५६ ॥ तदानीं विदितात्यन्त-विप्रयोगागमा इव । स्वच्छन्दं दयितां परित्रम् ||NI केचि-दालिलिङ्गः पुनः पुनः ॥ ४५७ ॥ उत्सुकोऽसि खलु स्वर्ग-स्त्रीभोगेष्विति भाषिणी । प्रेयसी कंचिदुत्थास्नु-माश्लिष्य वर्गः१२॥ रुरुधे चिरम् ॥ ४५८ ॥ तामिस्ताभिः कृतोत्साहै, राजदौवारिकोक्तिभिः । संवर्मयितुमारेमे, ततो विश्वंभराधवः ॥ ४५९ ॥
नवोढदयिताऽऽस्येन्दौ, केचित् स्तिमितदृष्टयः । उदस्तवमणोऽप्यग्रे, नापश्यन्ननुजीविनः ।। ४६० ॥ किं भविष्यत्यसो जाते, ॥२२०॥
मम देवादमङ्गले । शोचन्निति प्रियां कश्चि-न संवर्मणमस्मरत् ॥ ४६१ ॥ कश्चिदव्यक्तजल्पाक-बाललालनलालसः । दंशनानयनादेश-मप्यदान निदेशिनाम् ।। ४६२ ॥ श्रीशुद्धान्त-गजा श्वादि-चिन्तयाऽऽचान्तचेतसः । आरोप्यमाणमप्यङ्गे, न वर्म विविदुः परे ॥ ४६३ ॥ राजानो रेजिरे नद्ध-हाटकोत्कटकङ्कटाः । वैश्वानरा इवोदग्र-ज्वालाजालजटालिताः॥४६४ ॥ कश्चित् संहननोत्ताल-बलकोलाहलाकुलः । आलानद्रुममुन्मूल्य, जगाहे शिबिरं करी ॥ ४६५ ।। सेनाकलकलोद्धान्त
चेतसां सामजन्मनाम् । विशुष्यन्ति स्म केषांचि-न्मदस्रोतांसि तत्क्षणात् ॥ ४६६॥ कथंचिद्राहयांचक्रे, श्रुतसांग्रामिकानकः । | उन्मीलितकटः सद्यः, कङ्कटं कोऽपि कुञ्जरः ॥ ४६७ ॥ आदाय सिन्धुरः सादि-मात्तेकगुडेपक्षकः। कश्चिदाकस्मिकक्षोभक्षुण्णचेताः पलायत ।। ४६८ । आजये सज्जिताः कामं, रेजिरे कुञ्जरेश्वराः । पत्रलाः परितो नम्र-शाखान्ता इव शाखिनः ॥ ४६९ ॥ विनीता अपि तत्कालं, कलिताविनयक्रमाः । ग्राह्यन्ते स्म बलात् केचित् , खलीनमपि वाजिनः ॥ ४७० ।। कल्पयन्तं तथा पझ्झां, सादिनं कोऽप्यहन् हयः । यथा सोऽभूदलंभूष्णुः, सांयुगीने न कर्मणि ॥ ४७१ ॥ संसूत्रिततनुत्राणा
१ (दंशनं कवचम् ।) २ गजानाम् ३ कट:-गण्डस्थलम् । ४ कवचम् । ५ गुडः-आस्तरणम् , स एव सहायो येन ।
॥२२०॥
Jain Educ
For Personal & Private Use Only
AGRainelibrary.org