SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 115 ॥४४१ ।। (त्रिभिर्विशेषकम् ) अर्कवन्मकरं धर्म-सूतिरास्थितवान् रथम् । प्रतस्थेऽरिहिमोच्छित्यै, रणक्षोणिमनुत्तराम् ॥ ४४२ ॥ स प्रातिपन्थिकस्तस्य, प्लावयिष्यन्निवावनिम् । धृष्टद्युम्नं पुरस्कृत्य, चचाल बलनीरधिः ॥ ४४३ ॥ रथाङ्ग| पाणिः सारथ्य-माचरन् सव्यसाचिनः । ददृशे विस्मयाल्लोकै-रुणस्येव भानुमान् ॥ ४४४ ॥ ममोत्पत्तिभुवो व्योम्नः, शल्यान्येतान्यतो ध्रुवम् । निस्वाननिस्वनस्तस्य, शैलशृङ्गाण्यपातयत् ॥ ४४५॥ तस्मिन् सैन्यौघसंमर्दे, निरुच्छासं महीरजः । व्यश्नुते स्म चिरेण द्या-मप्युद्धतमनेकधा ॥४४६॥ केतवः पवनैः काम-मनुकूलैस्तरङ्गिताः । इतो जय इतो लक्ष्मीरित्याख्यान्त इवाबभुः ॥ ४४७ ॥ रेणुरान्वीपिकैगन्ध-वाहरुद्वाहितः पुरः। नासीरस्यापि नासीरे, द्विषो जेतुमिवाचलत ॥ ४४८॥ भटाः शत्रून पश्येयु-रेभिरन्धंभविष्णवः । इतीवाशमयन् दानैः, क्षोणिरेणून् करेणवः ॥ ४४९ ॥ शूरस्यापि परस्योच्चैः-करक्षेपासहैरिव । कामं वीरायुधैर्भास्व-त्कराश्लेषात् प्रजवले ॥ ४५० ॥ विमानैरनुकामीनैः, खेचराणां मणीमयैः। चकाशे दरमाकाशे, कुर्वद्भिः कमलाकरम् ॥ ४५१ ॥ निवासेषु पदेव्यां च, रणक्षोणी च सा चमूः। साकल्येनैव सर्वत्र, महावृष्टिरिवाबभौ ॥ ४५२ ॥ अथोपेत्य समिद्रमौ, पाण्डवेयस्य शासनात् । आरचय्य महायुह, भूनेता-1 रोऽवतस्थिरे ॥ ४५३ ॥ यदैव च तपासूनो-रनीकं समनह्यत । तदेव कोरवस्यापि, शङ्कः सांनाहिकोऽध्वनत् ॥ ४५४ ॥ किं नामास्मिन्त्रणारम्भे, भवितेति घिया समम् । अथ प्रजागरांचकु- भुजो भुजशालिनः ॥ ४५५ ॥ वल्लभादोलताश्लेष-सुखनिर्मग्नचेतसः। १ सूर्यः मकरराशिमिव । २ ‘स्तारः' प्रतिद्वय० । (३ अनुकूलैः) । ४ 'नासीरद्वि०' प्रत्यन्तर० । ५ मार्गे । For Person Private Use Oy
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy