________________
पाण्डवरिम् ॥ सर्गः १२ ॥
॥२१८॥
112
दुच्चरत्पुलकाङ्कराः । उपस्थितरणान् प्रातः, प्राणनाथान् बभाषिरे || ३९८ || (पङ्किः कुलकम् ) वीरश्रिया पुरस्कृत्य प्रीत्या दृष्टोऽप्सरोगणैः । जयलक्ष्म्या समाश्लिष्टो नैव वीक्षिष्यसेऽपि नः ॥ ३९९ ॥ इत्युच्चैः कृतकाम्या - निर्भरं वल्लभाजनैः । रणैषिणः स्मरस्मेर- कपोलैः केचिदूचिरे ॥ ४०० ॥ ( युग्मम् ) मया युधि हताः स्वर्ग, यास्यन्ति रिपवः स्फुटम् । मद्वैरात्तत्र योद्धार- स्वतः क्षुण्णाः गामिनः ? ।। ४०१ ॥ आत्तासिर्जर्जरान् स्वर्ग भूमिकां ग्राहयन्नरीन् । रणरङ्गेऽभिनेष्यामि, स्वामिलक्ष्मीस्वयंवरम् ॥ ४०२ ॥ मत्कृपाणप्रहारोत्थे - मौक्तिकैरिभसंभवः । द्विषो द्रक्ष्यन्ति सत्रासं दिवा तारकितां दिवम् ।। ४०३ ।। उन्नतः समरव्योम्नि, ममासिर्नूतनोऽम्बुभृत् । सूत्रयिष्यति संतापं, केषां नाम न वैरिणाम् ? ॥ ४०४ ॥ कीर्ति - प्रवारमुन्मुच्य, बहिर्बाहूष्मतापिताः । कृपाणाम्भसि मङ्क्ष्यन्ति मम के नाम नारयः ? || ४०५ || एकस्मिन्नेव निक्षिप्ता, मदीयशरपञ्जरे । द्विषः सर्वेऽपि लप्स्यन्ते, केलिपारापतोपमाम् ।। ४०६ ।। पास्यन्ति मे पिपासार्ता, इव वेगेन गामिनः । विद्वेषिदन्तिनां दान - वारिधारां शिलीमुखाः ॥ ४०७ || आदास्यन्ति ममाराति-दन्तिदानानि मार्गणाः । कीर्ति तु मत्प्रभोरेव, करिष्यन्ति जगत्रये ॥ ४०८ ॥ इत्यादयस्तदाऽनेकाः, सेमीकोत्साहशालिनाम् । भटानामभवन् भूयो भूय एव मिथः कथाः || ४०९ ॥ ( नवभिः कुलकम् )
अथोभिद्रजपाजैत्रं, तन्यमानो रविर्मह: । उल्ललास दिशि प्राच्या- मानन्दैः सह दोष्मताम् ॥ ४१० ॥ सर्वाञ्जागरयन् १ ' स्तात ! ' प्रतिद्वयपाठः । २ ' स्वर्गि० प्रतिद्वय० । ३ अभिनयं करिष्यामि । ४ कीर्तिवस्त्रम् । ५
समीक:- युद्धम् ।
Jain Educational
For Personal & Private Use Only
पाण्डवसैन्य
सज्जता ॥
॥२१८॥
ainelibrary.org