SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ दर्श दर्श नवां बवाम् । कपिध्वजधनुष्मत्ता, प्रीणयिष्ये दृशौ मम ॥ ३८३ ।। धर्मसूतिः प्रतिश्रुत्य, तां गिरं मुरविद्विषः । गत्वा च स्वचमूर्युद्ध-संवाहाय समादिशत् ।। ३८४ ॥ मतिमान् सर्वसंमत्या, द्रुपदोशनन्दनम् । पताकिनीपतिं चक्रे, धृष्टद्युम्नं युधिष्ठिरः ॥ ३८५ ॥ नानावर्णास्तदैवान्तः-क्रोधार्चिष्मच्छिखा इव । स्कन्धावारप्रवीराणां, नेत्रपट्टा विनिर्ययुः ॥ ३८६ ॥ रणारम्भोत्सवे वीर-कवलाय भटावलेः । करम्भाः करकाभासो, निरपाद्यन्त दाधिकाः ॥ ३८७ ॥ द्रक्ष्यामो भटकण्ठस्था, युद्धोत्सवमिति ध्रुवम् । विकाससुभगाभोगाः, सृज्यन्ते स्म नवाः सजः ॥ ३८८ ।। घृष्यते स्म प्रवीराणा-मङ्गरागाय चन्दनम् । पिष्यन्ते स्म ललामेभ्यो, भूयस्यो मृगनाभयः ॥ ३८९ ।। बलिपुष्पोपहारादि-वस्तुभिर्भटवेश्मसु । पुरस्तादत्रदेवीनां, प्रावर्तन्त महोत्सवाः ॥ ३९० ॥ उपयाचितलक्षाणि, देवतानां पृथक्पृथक् । प्रतिशुश्रुविरे वीर-दारैजयैपिभिः ।। ३९१ ॥ तत्पूर्वसंगमप्रेम-कल्लोलिन्य इवोच्चकैः । प्रेयसो रहसि स्वैर-मालिलिङ्गुर्भटाङ्गनाः॥ ३९२ ॥ वीरसूतिरहं वीर-स्नुषा च जगति श्रुता । अखण्डं वीरपत्नीत्व-मिदानीं तु मम क्रियाः॥ ३९३ ।। भीताश्च सप्रमोदाच, त्वय्येव रणरङ्गिाणि । विश्राम्यन्तु दृशः काम, वैरिणां च प्रभोश्च ते ॥ ३९४ । निजकौक्षेयकक्षुण्ण-कुम्भिकुम्भस्थलोद्भवैः । विदध्या मौक्तिकैर्मी च, स्वामिकीर्तिं च हारिणीम् ॥ ३९५ ॥ कुर्वीथास्त्वं तथा नाथ !, यथा त्वां पश्यतो रणे । भटीजनस्य सर्वस्य, स्पृशामि स्पृहणीयताम् ॥ ३९६ ॥ | निर्जित्यारीनुपेतस्य, प्रथयिष्यामि नाथ ! ते । निविडालिङ्गनरेव, प्रहारव्रणशोधनम् ।। ३९७ ।। इत्यालिङ्गय रहः काश्चि १ दधिविकाराः । • भूपणेभ्यः । ३ कौशेयकः-खड्गः । in Education intern al For Personal & Private Use Only www.ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy