________________
पाण्डव
परिश्रम् ॥
सर्गः १२ ॥
॥२१७॥
1to श्रौषीत् पितामहः । सेनानीत्वे तदैवाय-मभ्यषिच्यत चामुना || ३६८ ।।
अथ प्रस्थापितो राज्ञा, गान्धारीतनुजन्मना । सुमेधा मागधोऽभ्येत्य पाण्डुनन्दनमभ्यधात् ॥ ३६९ ॥ राजन् ! दुर्वादोर्वीर्य-निर्जितारा तिमण्डलः । जल्पति त्वामिदं वीरो, मदिरा कौरवाग्रणीः || ३७० || त्वद्वयिन्तभुत्रः कीर्तेः, संविभागमितं पचः । अहमाद्यं रणारम्भं, जरासन्धमयाचिपम् ॥ ३७१ ॥ तत् प्रातस्तात गाङ्गेय - माहवोत्सवदीक्षितम् । पुरस्कृत्यावतीर्णं मां, द्रक्ष्यसि त्वं रणक्षितौ ।। ३७२ ।। तदन्तर्मनसं कोऽपि सवोत्कर्षोऽस्ति चेत्तव । विश्वविश्वंभराभोगवैभवे च यदि स्पृहा ।। ३७३ || यदि दोर्विक्रमोऽप्यस्ति तत्र कोऽपि पचेलिमः । बन्धवोऽपि रणोपास्ति - सौवस्तिकभुजा यदि || ३७४ ॥ तदाऽऽत्मीयबलैः सार्धं, सर्वैरपि हरेर्बलैः । तिष्ठेधाः पुरतः प्रात राहवे मम बाहवे ॥ ३७५ ॥ (त्रिभिर्विशेषकम् । ) तद्वन्दिनो वचः श्रुत्वा शत्रुशौण्डीरिमोर्जितम् । दूरमकुरितप्रीति- रम्यधत्त युधिष्ठिरः || ३७६ ।। तस्यापि स्वप्रभोरेवं, बन्दिराज ! निवेदयेः । त्वमप्येतद्वचः कार्पा-र्मा विपर्याससुरम् || ३७७ || अहं तु यदि नाभ्येमि त्वत् प्रागेव रणाङ्गणम् । सूनृत व्रतिनस्तन्ने संपूर्ण वाव कीर्णता || ३७८ || व्याहृत्येति हिरण्यौघैरमुं सत्कृत्य मागधम् । विसृज्य च तपः सूनु - यौ कंसान्तकान्तिकम् || ३७९ ।। निवेद्य बन्दिनोद्गीर्णां कौरवीयां कथामिमाम् । स्वयं प्रथम संग्राम - मच्युतं सोऽप्ययाचत ॥ ३८० ॥ अरिष्टारिरभाषिष्ट पाण्डवेयं ततो हनन् । मामत्रैकतुलाद्यूने, भागिनं न करिष्यसि ॥ ३८१ ।। न हि साहायकापेक्षी, नूनं तस्मिन् रणे जयः । महः पाण्डुमहीभर्तु-यंत्र देदीप्यतेतमाम् || ३८२ ।। तथापि सारथीभूय, १ मितं पचतीति मितं पचः - लोभवान् । २ युद्धसेवायां कल्याणकारिणौ भुजौ येषां ते । ३ व्रतभङ्गः ।
Jain Educadnational
For Personal & Private Use Only
कौरवमीष्मयोर्वि
चारः ।
युधिष्ठिरान्तिके
मागधस्या गमनम् ।।
॥२१७॥
ainelibrary.org