SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ | "कृतसाहायकश्चन्द्र-वसन्त-मलयानिलैः । मुनीनामपि चेतांसि, किं न मनाति मन्मथः ? !! ३५३ ॥” भवद्दोर्विक्रमैः कामं, विजेष्येऽहं विरोधिनः । पक्षिराजोऽपि यत पक्ष-स्तरत्यम्बरसागरम् ।। ३५४ ।। वैरिखङ्गाम्बुदुर्वार| यौष्माकीणैभुजोष्मभिः । मदीया सततोल्लास-मल्लिका कीर्तिमल्लिका ॥ ३५५ ।। जरासन्धोऽधुनाभ्यण, प्रार्थितः प्रथमाहवम् । स्वयं पाण्डुतनूजानां, वधश्रद्धालुना मया ।। ३५६ ॥ तदनुग्रहमाधाय, निवेदयितुमर्हथ । स्वख्यं मे समग्राणामात्मानीकधनुष्मताम् ।। ३५७ ।। कियन्तोऽतिरथाः सम्य-क्कियन्तश्च महारथाः। कति चार्धरथाः सैन्ये, सेनान्यं च करोमि कि(क)म् ।।३५८॥ अथाभाषत भीष्मस्तं, राजन् ! किमिदमुच्यते । स्वयं वेत्स्येव यत् सत्यं, रहस्यं सर्वधन्विनाम् ।।३५९।। राधेयस्तु प्रमादी च, कृपालुश्च रणाङ्गणे । तेनार्धरथ एवाय-मिति में प्रतिभासते ॥ ३६० ॥ वचस्तदिदमाकर्ण्य, कर्णयोविषसोदरम् । अभिधत्ते स्म राधेयः, कोपकम्प्रोष्ठपल्लवः ।। ३६१ ॥ गाङ्गेयस्य रणे याव-दातिरथ्यं प्रथिष्यते । न पाण्डवैः समं ताव-द्धारयिष्ये धनुयुधि ॥ ३६२ ।। इत्युदीर्य भुजावीर्य-मन्यमानस्तृणं जगत । कर्णः क्रोधान्धलोऽगच्छ-दुत्थायास्थानमण्डपात् ॥ ३६३ ॥ गतेऽस्मिन्नसुखायन्तं, भीष्मोऽभाषिष्ट भूपतिम् । राजन् ! कोऽयमकाण्डेऽपि, मुखे कष्मलिमा तव ? ॥ ३६४ ॥ पंधने धृतधन्वाऽहं, यदि कर्णेन किं तदा । न चेदुपात्तचापोऽस्मि, राधेयेन तदाऽपि किम् ? ॥ ३६५ ।। अथाभ्यधायि गान्धारी-तनयेन पितामहः। चेत् प्रसीदसि मे तात!, किंचिद्विज्ञापयाम्यहम् ।। ३६६ ।। तातमेवेयमध्यास्तां, रणभारधुरीणता । धराऽभ्युद्धारधौरेयः, को नामान्यः फणीश्वरात ? ॥ ३६७ ।। तां गिरं कौरवेन्द्रस्य. प्रत्य १ समीपस्थम । २ यद्धे । Jan Education tematang For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy