SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ to8 भीपाण्डवचरित्रम् ॥ सर्गः १२॥ कौरवजरासन्धसैन्ययोरागम ॥२१६॥ नम् ॥ कवलीकुर्वतो रणे । उपदंशपदे नूनं, ते भविष्यन्ति पाण्डवाः ॥ ३३९ ॥ राजता राजते चन्द्रा-द्विपरीतव भूभृताम् । प्रणयादाश्रितं यत्ते, मित्रमेवोपकुर्वते ॥ ३४० ॥ यस्तु तादृग्विधो नैव, स कथं राजशब्दभाक् ? । लभतां च कथंकारं, गणनां पुरुषेष्वपि ? ॥ ३४१ ॥ तद्विधाय ध्रुवं प्रात-महीखण्डमपाण्डवम् । नेष्यामि कुरुराजस्य, राज्यं । द्वैराज्यशून्यताम् ॥ ३४२ ।। अथोच्चैः कुड्बलीकृत्य, करौ दुर्योधनोऽभ्यधात् । श्रोतुमर्हसि राजेन्द्र !, भारती मामिकामिमाम् ॥ ३४३ ॥ त्वयि | शौण्डीर्यमाणिक्ये, संगराङ्गणसंगिनि । आस्तामन्यः स्फुटं सोऽपि, वराकः पाकशासनः ॥ ३४४ ॥ शत्रुमात्रेषु ते स्वैरं, तेऽप्यलंभूष्णुविक्रमाः। ये तावकीनमाहात्म्य-देवतापात्रतां ययुः॥ ३४५ ।। तदस्य यशसः पाण्डु-मनुसंहारजन्मनः। वीरोतंस ! न मे गन्तुं, त्वमर्हस्यंशहारिताम् ॥ ३४६ ॥ तमप्येतैः समं युद्धे, हनिष्यामि हरिं यदि । तन्निदेश्यकृतत्वेन, विशेषयशसे तव ॥ ३४७ ॥ तद्यावदेव ! कौन्तेय-कौरवीयोऽयमाहवः । सभ्य एव भवेस्ताव-न्मयि भृयादनुग्रहः ॥ ३४८ ॥ ओमिति प्रतिपेदाने, तां गिरं मगधेश्वरे । स्वावासान् सपरीवारो, जगाम धृतराष्ट्रभूः ।। ३४९ ॥ संगमय्य तदैवायं, निजानीकमहीयसः । गाङ्गेय-द्रोण-कर्णादीन् , सुभटानित्यभापत ॥ ३५० ।। समागच्छदगाधोऽयं, प्रातः संगरसागरः । उत्तरीतुमिमं युष्म-दोर्दण्डा एव सेतवः ॥ ३५१ ।। अनीषत्करमप्युच्चैः, कार्यमीषत्करं भवेत् । यत्रैकहृदयोत्साह-धारिणः सहकारिणः ॥ ३५२ ॥ १ राजद्वयाभावताम् । ।।२१६॥ JainEducati For Personal & Private Use Only inelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy