________________
Jain Education Intemation
107
चरोद्गीर्णां तां कथां प्रतिपन्थिनः । हृष्यति स्म हृषीकेशः, पैतृखसैः सहाखिलैः ॥ ३२४ ॥
" प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च, बिभ्रते परमां मुदम् ॥ ३२५ ॥ "
दापयामास चाराय, मुरारिः पारितोषिकम् । नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः || ३२६ ।। उद्यन्तोऽथ दिशि प्राच्यां, सूर्यसारथिना समम् । अश्रूयन्त जनैरूर्ज-स्विनो निखाननिस्वनाः || ३२७ ॥ श्यामायुष्टोमयज्वानो, ध्वान्तमेदस्करोदयाः । निपीतप्रसरद्धास्व- दंशवः पांसवोऽस्फुरन् ॥ ३२८ ॥ जितोचैर्मन्दरक्षुब्ध-क्षोभिताम्भोनिधिध्वनिः । आकर्ण्यतोल्लसत्कर्णैः, सैन्यकोलाहलो जनैः || ३२९ || अवतेरुस्ततः सार्धं, करैः किरणमालिनः । दामोदरचमूलोक-लोचनाध्वनिकेतवः ।। ३३० ।। रोधस्येव सरस्वत्या - स्ततः सान्द्रतरद्रुमे । दवीयस्येव गोविन्द - स्कन्धावारस्य भूतले ।। ३३१ || अगृह्यन्त जरासन्ध - सैनिकैर्वीतभीतिभिः । निवासा वासवागार - गर्वसर्वस्वहारिणः ॥ ३३२ ॥ युग्मम् ॥ निवासो मगधेशस्य, तैः शशाङ्कसितः सितैः । रोचते स्म तुषाराद्रि-रिव प्रत्यन्तपर्वतैः ॥ ३३३ ॥ कर्णादीनां प्रवीराणां, शल्यादीनां महीभृताम् । जाह्नवीतनयादीनां, स्कन्धावारगरीयसाम् ।। ३३४ ।। समभूवन् यथास्थानं, स्वस्वकेतनशालिनः । आवासा हास्तिका श्रीयरथ्यौ-पादातशोभिनः ॥ ३३५ ॥ ( युग्मम् ) रेजे दुर्योधनावासो- ऽप्युज्वलैस्तैः परिष्कृतः । मालतीमुकुलश्वेतैः श्वेतभानुरिव ग्रहैः ॥ ३३६ || हास्तिका - श्वमयी रथ्या-मयी पौंस्तमयी तथा । आसीद्वयैरनीकैस्तैः, कुरुक्षेत्रोपकण्ठभूः ॥ ३३७ ॥
अथ सायंतनाऽऽस्थान-मास्थितो मगधेश्वरः । आददे गिरमध्यक्षं, सर्वक्षोणीभृतामपि ॥ ३३८ ॥ मम चक्रस्य गोपालं, १ श्यामा - रात्रिः । २ क्षुब्धः - मन्थनदण्डः । ३ सूर्यस्य । ४ निवासैः ५ रथानां समूहो रथ्या ।
For Personal & Private Use Only
www.jainelibrary.org