SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पीपाण्डवचरित्रम् ॥ सर्गः १२ ॥ ॥२१५॥ 106 जरासन्ध जायते ॥ ३०८ ॥ परं द्वैमातुरो राजा, सोऽयमौद्धत्यमन्दिरम् । अध्यायत्येकपथ्याना - माप्तवाचामगोचरः ॥ ३०९ ॥ गान्धारेयस्तु धौरेय एव दुर्मेधसामसौ । न खल्वर्हति वृद्धानामुपदेशं मनागपि ।। ३१० ।। एकस्तावज्जरासन्धो, दुर्घी- वृत्तान्तः ॥ दुर्योधनोऽपरः । सैष ग्रीष्मर्तुसंताप - कालकूटसमागमः ॥ ३११ ॥ दावपावकवत् सर्व, निर्दय कुलकाननम् । नूनमेतौ दुरात्मानौ, निर्नाम क्षयमेष्यतः ॥ ३१२ ॥ अथासौ कौरवानीकै-रैन्दवैरिव रश्मिभिः । चचाल मांसलीभूतो, जरासन्धबलोदधिः ॥ ३९३ ॥ प्रागभ्यासा इवात्मान- मुदवाहा इवार्णवम् | भूभुजः कटकं तस्य, विशन्ति स्म सहस्रशः ॥ ३१४ ॥ तद्वलाक्रान्तभूभारो -द्वारसाहायकार्थिना । फणिनोऽन्ये फणीन्द्रेण, प्रार्थयांचक्रिरे ध्रुवम् || ३१५ || तत्तुरङ्गखुराघातै र्विव्यथे पृथिवी तथा । रजोव्याजेन संजज्ञे, यथा गगनगामिनी ॥ ३१६ ॥ तदा सत्यापयामास, स्वां महाबलतां मरुत् । अभूद्वीरावतंसस्य, यदस्य प्रातिलोमिकः ।। ३१७ ।। गच्छन्तं मृत्यवे मित्र !, त्वमप्येनमुपेक्षसे । इतीवादित्यमभ्येत्य, शिवाः कामं ववाशिरे ।। ३१८ || अनीयुपीणां तत्सैन्यशोषिताशेषपाथसाम् । वार्धिः शङ्केऽद्य कान्तानां बिभर्ति विरहव्यथाम् || ३१९ ।। किमेते भूभृतो इन्त, पृथकटकशालिनः । इति क्रोधादिवानीकै - राचक्राम स भूधरान् || ३२० ॥ अनूपाञ्जाङ्गलीकुर्व - खङ्गलानप्यनूपयन् । उर्वीमनुर्वीकुर्वाणः, सूत्रयन्ननगान्नगान् ।। ३२१ || व्यक्तशक्तिर्जरासन्धः सोऽयमन्यः प्रजापतिः । समं कुरुबलैरागा - निकटे कोटरावणे ।। ३२२ ।। ( युग्मम् ) प्रातरेव कुरुक्षेत्र - मयमायास्यति ध्रुवम् । “वीरा हि प्रियसंग्रामा, न नाम चिरकारिणः " || ३२३ ॥ इत्याकर्ण्य १ जरासन्धः । २ नदीनाम् । ३ जलमयदेशान् । ४ वृक्षरहितान् पर्वतान् । Jain Education International For Personal & Private Use Only ॥२१५॥ www.jalnelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy