SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ tos वधोऽमुष्य भवन्नेत्रा-नन्दी नान्दी भविष्यति ॥ २९४ ॥ खण्डयन् पाण्डवान्नं, भुजो नः शेषयिष्यति । मेरुमुज्झति किं शैलान् , मजयन् प्रलयार्णवः ॥ २९५ ।। वारितोऽपि ततस्तैस्तै-दुनिमित्तैःक्षुतादिभिः । आदिदेश जरासन्धः, प्रस्थानाय वरूथिनीम् ।। २९६ ॥ भरं वोढुमसंभाव्य-मन्ये सैन्यस्य तावतः । देव ! तन्नगरोत्सङ्गे, चकम्पे काश्यपी मुहुः ॥ २९७ ॥ प्रभो वि विभाव्येव, विपदर्णवमन्जनम् । दिशः श्याममुखाः कामं, जज्ञिरे मलिनाम्बराः ॥ २९८ ॥ सैन्यरेणुभिरश्रान्तं, वारयिष्यामहेतमाम् । भियेवेति दिवो भानि, झम्पामुल्काच्छलाद्ददुः ॥ २९९ ॥ प्रसपत्त्वत्प्रतापाग्नि-ज्वालाजालैरिवाभितः । अदृश्यन्त दिशां दाहाः, पुरे तस्य दिवानिशम् ॥ ३०० ॥ प्रस्थानोस्त्वदरिवातं, संहत समवर्तिनः । सैन्यैरुत्तम्भितः शङ्के, दिवि केतुळजृम्भत ॥ ३०१ ॥ प्रस्थितोऽमीभिरुत्पातै-नैत्यसाविति शङ्कया । निर्घाताः परितः क्षोणि-वक्षोधाता इवाभवन् ॥ ३०२ ।। क्रोधावेशादनादृत्य, दुनिमित्तान्यमून्यपि । प्रयाणं कुरुभिः साधं, विदधे मगधेश्वरः ॥ ३०३ ॥ हरिरित्यभिधायास्ते, देव ! त्रस्त इवात्यजत् । आरुरुक्षोः क्षणात्तस्य, कुञ्जरग्रामणीमदम् ॥ ३०४ ॥ तस्य प्रस्थास्यमानस्य, वाहिनीवाजिकुञ्जरम् । पुरीष-प्रस्रवौ चक्रे, त्वत्प्रचक्रभयादिव ॥३०५॥ ज्ञाततद्विपदो राज्य-लक्ष्म्या वक्ष इव क्षणात् । ताडनारम्भ एवोच्चै-रस्फुटजयदुन्दुभिः ॥ ३०६ ॥ भीष्म-द्रोण-कृपादीनां, कुरुसैन्यमहीयसाम् । तदाऽऽमन् जातखेदानां, परस्परमिमा गिरः ॥ ३०७॥ एतैदुष्टैः स्फुटं रिष्टैः, संगरोत्सङ्गमीयुषाम् । शौण्डीराणामपि प्रायः, प्रत्यावृत्तिन १ ‘वधो मुररिपोर्नेत्रा' प्रतित्रय० । २ ‘मन्यै ' प्रत्यन्तरपाठः, 'मन्यैः' इतिपाठः संभवति । ३ यमस्य । १ 'र्नेतासा.' का इति प्रत्यन्तरपाठः साधुः । sain Education For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy