SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ शेखरकेव कथितः जरासन्धवृत्तान्त: कृष्णस्य॥ 104 श्रीपाण्डव- वर्गीणा, ग्रावाणोऽप्यग्निवार्षिणः ॥ २८१ ॥ मारुतैरिव दावाग्निः, पाण्डवैर्दत्तचण्डिमा । सांप्रतं सैव निःशेष-द्वेषिकक्षं चरित्रम् ॥ दिधक्षति ॥ २८२ ॥ सर्गः१२॥ अवोचच्च स मां किंचि-द्यदि दूतत्वमस्ति ते । जरासन्धं तदाबद्ध-निर्बन्धं युधि दर्शयेः ॥ २८३ ॥ महानपि स मे | Nकामं, न किंचिदिव संगरे । “स्थवीयानपि दम्भोले-भुंधरः किल कीदृशः?" ॥ २८४ ॥ ॥२१४॥ "वहिरिन्धनकूटेषु, तपनस्तिमिरोर्मिषु । वीरश्च वैरिवारेषु, स्वाधिकेष्वपि शक्तिमान्” ॥ २८५ ॥ ____ जरासन्धशिरःस्कन्धा-च्छिन्नमुच्छलितं दिवि । मम तस्य च दोष्कर्म, रुद्रेण द्रक्ष्यते क्षणम् ।। २८६ ॥ उन्नम्य समरव्योम-न्यसिर्धाराधरो मम । निर्वापयिष्यति क्षोणिं, जरासन्धभुजोष्मलाम् ॥ २८७ ।। रेऽहमर्जुनस्यापि, शराणां तं जिघत्सताम् । तैर्भविष्यत्यपोशान-मेव कौरवशोणितैः ॥२८८॥ संख्यानविषयातीतै-बलौधैर्यदुभूभुजाम् । अमृभिः पाण्डवेयस्या-क्षौहिणीभिश्च सप्तभिः ॥ २८९ ॥ अयमायात एवास्मि, कुरुक्षेत्रक्षितौ क्षणात् । तत्राभ्येतु त्वदीशोऽपि, यद्यस्ति | भुजवैभवम् ॥ २९० ॥ (युग्मम् ) इत्याकण्योभयाकर्णि-कीर्णज्वरभरां गिरम् । जरासन्धोऽतिजज्वाल, कालानल इवाङ्गवान् ।। २९१ ।। ततोऽभ्यधायि गान्धारी-पुत्रैरासन्नवर्तिभिः । राजन् ! कोऽयमिभारातेः, संरम्भो मृगधृर्तके ॥ २९२ ॥ वयमेनं हनिष्यामः, पृष्ठाधिष्ठायिनि त्वयि | पृष्ठस्थे किमु धर्माशी, न नन्ति घृणयस्तमः ? ॥ २९३ ॥ पाण्डुनन्दनकल्पान्त-नाट्यं नाटयतां हि नः । १ ‘भद्रेण द्रक्ष्यति' प्रतिद्वय० । २ भोजनादौ यजलेनाचमनं क्रियते तत् । ३ किरणाः । ॥२१४॥ For Personal Private Use Only nelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy