________________
103
देव! राजगृहात पुरात् । चरः शेखरको नाम, देवपादान् दिदृक्षते ॥ २६७ ॥ मुरारातेरथादेशा-द्वेत्रभृत्तमवीविशत् । सोऽप्यानम्य मिलत्पाणि-रुपविश्य व्यजिज्ञपत् ॥ २६८॥ देव ! दूतो जरासन्ध-भूभुजः सोमकाभिधः। द्वारकातस्तदा वेगा-दगाद्राजगृहं पुरम् ।। २६९ ॥ भवद्भिर्विहितात्यन्त-धर्षणः सोऽत्यमर्षणः । तत्र व्यज्ञापयत् क्रोध-भाखरं मगधेश्वरम् ॥ २७० ॥ देव ! द्वारवतीं गत्वा, समुद्रविजयं नृपम् । देवादेशेन गोपाल-बालको तावयाचिषम् ॥ २७१ ॥ वर्षीयानप्यवर्षीयो-बुद्धिरुद्धरकन्धरः । प्रभो! ताभ्यां तु गोपाभ्यां स माति न जगत्यपि ॥ २७२ ॥ ब्रूते च स्वामिनस्तेऽह| मीहकः किंकरोऽथवा । यदाक्रम्य कुमारौ मे, दुर्मतिर्याचते बलात् ॥ २७३ ॥ अहीश्वरशिरोरत्नं, नूनमादातुमीहते । नर
केसरिणोऽप्येष, दंष्ट्रामाक्रष्टुमिच्छति ॥ २७४ ।। तौ तु गोपालको देव !, नवतारुण्यपीवरौ । अहंकाराविवोत्साहा-विवामर्षाविवाङ्गिनौ ॥ २७५ ॥ ज्यायानेकोऽपि तत्रोद्य-दोविलासः पिपासति । कुम्भोद्भव इवाम्भोधीन , सर्वान् युधि विरोधिनः ॥ २७६ ॥ कनीयांस्तु भुजस्तम्भ-न्यस्तनिस्तुलधामभिः । चरित्रश्चित्रिताशेष-लोकैर्लोकोत्तरः परः ॥ २७७ ॥ असौ शक्ति तृणायापि, शतमन्योर्न मन्यते । मानुषीमलकीटानां, पार्थिवानां तु का कथा ? ॥ २७८ ॥ कश्चित् क्वचिञ्जरासन्धो-ऽप्यस्तीत्येवं न वेत्ति सः । भानुं जानाति न ध्वान्त-शुक्रवालगिरेः परः ॥ २७९ ।। निहत्य तं तथा कंस-मुत्तंसं वीरसंहतेः। सोऽभवदुरमुल्लण्ठः, कण्ठीरव इव द्विपम् ॥ २८० ॥ तदृष्मकलितोष्माणो-ऽभूवनन्येऽपि यादवाः। किं न तिग्मांशु| १ अतिवृद्धः । २ 'हमाह कः किंक०' प्रत्य० । (३ 'नरः' इत्युचितं प्रतिभाति) 'ननु केस.' प्रतिद्वय० । वा ४ सूर्यकान्ताः ।
Jain Education
For Personal & Private Use Only
www.jainelibrary.org