SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ र्गः १२ ।। |२१२॥ 100 करमितस्ततः । चकार सरितः क्षोभ -मभीकः करिपुंगवः ॥ २२२ ॥ श्वासोद्धृतैरिव स्थूल - मौलिमण्डलमौक्तिकैः । सिञ्चति स्म तनुं हस्ती, हस्तोदस्ताम्बुशीकरैः ॥ २२३ ॥ तदुर्मिसौहृदायाताः पयोराशेरिवोर्मयः । विराजन्ते स्म मज्जन्तः, सरिद्वारिणि वारणाः ॥ २२४ ॥ चित्रिता इव भूयोऽपि, निर्यान्तः सरितोऽन्तरात् । सरोजिनीरजःपुञ्ज - पिञ्जराः कुञ्जरा बभ्रुः ॥ २२५ ॥ समुद्र इव शीतार्ति-निर्गतान्तर्धराधरः । गजैस्तीर्त्वा तटोत्तीर्णे, राजते स्म नदीइदः ॥ २२६ ॥ बभौ स्वायंभुवी सिन्धु-दन्तावलमदाविला । स्वं मालिन्यमपाकर्तुं, कालिन्द्येव निषेविता ॥ २२७ ॥ क्रीडदुन्मत्तवानेय-दन्तिदानाम्बुपङ्किले । कोपतः सरितः कूले, पयणसीद्गजाग्रणीः ।। २२८ ॥ पेतुषीं सिन्धुरवासा - दवनीश्वरवल्लभाम् । कश्चिदालिङ्गनं सार्धं, साधुवादेन लब्धवान् ॥ २२९ ॥ श्रेणीबद्धैस्तुरङ्गेन्द्रै - ललवार्लेधिशालिभिः । वीजयद्भिरिवाराजि, चामरैः स्वप्रभुश्रियम् ॥ २३० ॥ प्रेङ्खत्खुरैः स्फुरत्प्रोथै-स्तारग्रैवेयकस्वनैः । राशीकृताः पुरो वाहैः, स्वादयांचक्रिरे यवाः ॥ २३१ ॥ वैरिविक्रान्तिसंतापं, सप्ताङ्गयाः स्वाङ्गसंपदः । समुच्छेत्तुमिवातुच्छं, क्षरन्तः सप्तधा मदम् ॥ २३२ ॥ निवासान् परितः पाण्डु - तनूजवनमालिनोः । इभाः शाङ्खलसान्द्रेषु, द्रुमेष्वालानिता बभ्रुः || २३३ || ( युग्मम् ) आलानपादपः पुष्पै - रङ्गवल्गनपातिभिः । व्यभादिमेश्वरे हर्षात्, पुष्पवर्षं किरन्निव ॥ २३४ ॥ आनीय कुम्भयोः कर्ण - तालयोर्लोलयन्मुहुः । प्रस्फोटयन् कटे दन्त - कोशान्तः स्थापयन् क्षणम् || २३५ || तैस्तैर्हस्तिपकोद्गीर्णे नोंदनावचनक्रमैः । मन्दादरः करीन्द्रः स्म, वर्णुते तृणपूलकम् ।। २३६ || ( युग्मम् ) १ शीतपीडया निर्गताः अन्तःस्थितपर्वताः यस्मात् सः । २ सरस्वती नदी । ३ तिर्यग्दन्तप्रहारमकरोत् । ४ वालधिःपुच्छम् । ५ ' स्वामीसंपदः ' प्र० । ६ खादति । Jain Education International For Personal & Private Use Only कृष्णपाण्ड वसैन्या वासः ॥ ॥२१२॥ Ajainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy