________________
नृपानुजाः ॥ १७५ ॥ प्रीतिपल्लवितानन्द-कन्दलो मेदिनीपतिः । निजासनसमानेऽथ, तं न्यवेशयदासने ॥ १७६ ॥ सकुटुम्बस्य तस्याथ, नाम गृह्णन् पृथक् पृथक् । पप्रच्छ कुशलोदन्त-मुदश्चत्प्रमदो नृपः ॥ १७७ ।। ऊचे मद्रपतिर्मदें, तस्य राजन् ! सनातनम् । स्वस्रीयो यस्य विश्वैक-मद्रकारो भवादृशः ॥ १७८ ॥ भगिन्यौ विश्वपाविन्यौ, कुन्ती माद्री च यस्य मे । ययोः सङ्गेन गङ्गाऽपि, प्रत्युत स्वं पुपूषति ॥ १७९ ॥ परं किमपि वक्तव्य-मस्ति रुन्द्धे त्रपा तु माम् । वच्मि किंचितथापि त्वां, नैव चेदुर्मनायसे ।। १८० ।। स्वाजन्यप्रणयेन त्व-मात्मीयमवगम्य माम् । प्रेषयांचकृषे दूतं, समित्यामन्त्रणाय मे ॥ १८१ ॥ किं तु दूतागमात पूर्व-मुर्वीचन्द्रः सुयोधनः । तेस्तैर्भक्तिक्रियारम्भ-उपरोधं मम व्यधात् ॥ १८२ ॥ उपस्थानं समीकेषु, तन्मयाऽस्मे प्रतिश्रुतम् । प्रभवाम्यन्यथा कर्तु, न चाहं वाचमात्मनः ॥ १८३ ।। किं सोऽपि पुरुषो? यस्य, न गीनिर्वाहशालिनी। किं नाम स मणिर्यस्य, नैव शाश्वतिकी प्रभा ॥ १८४ ॥ विमुच्य तदहं राजन् !, वाहिनीमदवीयसीम् । इत्याख्यातुमिहायात-स्त्वं प्रमाणमतः परम् ॥ १८५ ।। अथाजल्पदजातारिः, किं नामेदमसांप्रतम् ? । गान्धारेयोऽपि जामेय, एव ते ननु मातुल: ॥ १८६ ॥ तत्वया न पा कापि, कर्तव्या वज सत्वरम् । समराय भवद्दत्त-सौष्ठवः स प्रतिष्ठताम् ॥ १८७ ।। इत्युदीर्य तमौदोत्य-दर्शितस्त्रागतक्रियः। अजातशात्रवो देवः, प्रयाणायान्वमन्यत ॥ १८८ ।। स पादोप| ग्रहं कुन्ती-मानम्य चलितं ततः। यमौ तमनुगच्छन्तौ, स्वच्छन्दमिदमृचतुः॥ १८९ ॥ मातुलात्यन्तमौचित्य-च्युतमाका चरितं त्वया । कर्हिचिन्मुह्यति प्रायो, विदुषामपि शेमुषी ॥ १९० ॥ माद्री माताऽपि लोकेषु, किंवदन्त्याऽनया तव ।
१ मङ्गलम् । २ भागिनेयः । ३ पवित्रं कर्तुमिच्छति । ४ युद्धेषु । ५ उदात्तमेव औदात्यम् अत्यन्तमित्यर्थः ।
Education
For Personal Private Use Only
Wwwelry.org