SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 95 संगतैः । कालिन्या इव कल्लोले- छत्रैर्मायरपत्रकैः ॥१४५॥ प्रग्रहाकर्षणार्ध्व, भग्नग्रीवैस्तुरङ्गमैः। स्वस्थानस्थयुगैरेव, निन्यिरे स्यन्दनाः क्षितिम् ।। १४६ ॥ हैयादुत्तरतो वेगा-दधःस्कन्धं निपेतुपी । ययौ स्रस्तांशुका काचि-दासी सैन्यस्य हास्यताम् ॥ १४७ ॥ लवली-पूग-पुंनाग-नागवल्लीवनोल्वणम् । केतकी-कदली-ताली-नालिकेरीकरालितम् ॥ १४८॥ कल्लोलोत्कूलितानेक-रत्नराजिविराजितम् । तयाऽध्यपे पताकिन्या, तीरं लवणनीरधेः ॥ १४९ ॥ (युग्मम् ) मायुरैरातपत्रौधे-नूतनाम्भोदकान्तिभिः। वेलाविपिनपङ्कीनां, पौनरुक्त्यमसूत्र्यत ॥ १५० ।। तुहिनद्युतिसंतान, इवाम्भोधिं पितामहम् । आगतः शुशुभे राज्ञां, सितच्छत्रावलिच्छलात् ॥ १५१ ।। राशीकृताः स्फुटन्तीभिः, पारेऽकूपारमूर्मिभिः।। प्रेक्ष्यन्त सैनिकैः फेन-कल्पा मौक्तिकपतयः ॥१५२॥ प्रतिद्विपधिया क्रुद्धा-नीपादन्तानिषादिनः। धावन्तो रुरुधुः सिन्धुकल्लोलेभ्यः कथंचन ॥ १५३ ।। ताम्बूलीनां दलैः कांश्चि-नालिकेरासवैः परान् । कक्कोलै-लाफलैरन्या-नब्धिकूलमुपाकरोत् ॥१५४॥ उल्लसत्पल्लवेऽप्यास्यं, लवङ्ग-लवलीवने । दीयते स्म न दासेरैः, करीरस्पृहयालुभिः॥१५५ ॥ सांयात्रिकैः कृतं तत्र, नानादेश्यमुपायनम् । सर्वमप्युपदीचक्रे, चक्रभृद्धर्मसूनवे ॥ १५६ ॥ केतकामोदमेदस्त्री, वीचिसंचारमन्थरः । मध्याह्वाकव्यलीकानि, लुम्पति स्मार्णवानिलः ॥ १५७ ॥ धावद्भिरूमिभिर्वारि-वारणा-श्वविराजिभिः । साहायकाय सानीक-श्वचालेवोर्मिमानपि ।। १५८ ॥ वारिराशितटाराम-रामणीयकलम्पटान् । आचकर्ष पुरो वीरान् , युद्धश्राद्धं मनो बलात् ॥ १५९ ।। सैन्यैरैक्षि पुरः श्यामः, शूरश्रान्तिच्छिदे रणे । सहागन्तुं स्थितोऽम्भोद, इव रैवतकाचलः ॥ १६० ।। झरनिर्झर १ · वृषादु०' प्रत्यन्तरपाठः साधुः। (२ दीर्घदन्तगजान् ।) ३ उष्ट्रैः । For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy