SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पिाण्डवपरित्रम् ॥ पर्यः१२॥ पाण्डवकृष्णादीनां सैन्यनिनमः॥ ॥२०९॥ 34 दाराः प्रतस्थिरे ॥१३०॥ कापायैः केचिदुष्णीपैः, कौसुम्भैरपि केचन । कुर्वन्तः सर्वतः संध्यां, नूतनां सादिनो ययुः॥१३१॥ वारस्त्रियोऽप्सरोरूप-वैहासिकतनुश्रियः । अश्वैर्यान्ति स्म दृक्पात-पीतकामुकचेतसः ।। १३२ ॥ विलोलपल्लवाश्चेलु-रनिलरानुकूलिकैः । जयश्रीकर्षणप्रेड-त्कराग्रा इव केतवः ॥ १३३ ॥ वातोद्धृतेभसिन्दूर-पूरपिञ्जरिता दिशः। रेजुर्मङ्गलमाधातुं, सकौसुम्मांशुका इव ॥ १३४ ॥ गुप्तं खिड्गास्तुदन्ति स्म, वेसरं तावदारया । यावदुत्प्लुत्य शुद्धान्त-दासीमयमपातयत् ॥१३५ ॥ प्रयाणमीक्षितुं पाद-प्रान्तस्थैरट्टमूर्धनि । पतद्भिरुपरि स्त्रैणै-रुंदगुः कामिनां मुदः ॥ १३६ ।।। । अथ चेलाञ्चलोत्क्षेप-पूर्व पौराङ्गनाजनैः । कीर्यमाणौ मुहुर्लाजै-मूतः प्रीतिकणैरिव ।। १३७ ।। स्थाने स्थाने प्रतीच्छ न्तौ, पौरमाङ्गलिकान्युभौ । अजातारिमुरारिश्च, जग्मतुः पुरगोपुरम् ॥ १३८ ।। युग्मम् ॥ बलौघः स तदा तत्र, विशन् | संकटतामगात् । पयोधिरिव राकाया-मुत्कल्लोलः सरिन्मुखे ॥ १३९ ।। मणीनामनणीयोभिः, प्रभापुजैः प्रतोल्यपि । बलौघस्यास्य कुर्वाणा, रेजे नीराजनामिव ॥ १४० ॥ संक्रान्तमभितोऽनीकं, गोपुरे रत्नभित्तिषु । बभार त्रिगुणीभावं, प्रभावात् प्रामवादिव ॥ १४१ ॥ गोपुरे वारनारीणां, प्रतिबिम्बैः करम्बिताः । विभान्ति स्म मणिस्तम्भा, जीवत्पाञ्चालिका इव ॥१४२ ॥ शनैः शनैः पुरोद्वारा-निष्पपात पताकिनी। कवेर्वदनराजीव-कुहरादिव भारती ॥ १४३ ॥ उत्तरद्धास्तिकं हस्ति-नखारमधोमुखम् । सस्मार नर्मदातीर्थ-पथानां विन्ध्यकानने ॥ १४४ ॥ निर्यद्भिः शुशुभे शौरि-_लसौहार्द (१ कामुकाः ।) (२ अश्वतरम् ।) (३ चर्मप्रभेदिन्या ।) ४ प्रभुतायाः । ५ मिलिताः। (६ 'हस्तिनखः परिकूटम्' इति हलायुधः । पुरद्वारावतरणार्थ कृतः क्रमनिम्नो मृत्कूट इत्यर्थः । ) ॥२०९॥ Education a For Personal & Private Use Only tinerary or
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy