SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 93 रणः ॥ ११४ ॥ बालाभिरङ्गसौभाग्य-विशेषवलितेक्षणम् । वीक्षितोऽनुक्षणं नेमिः, प्रतस्थे स्यन्दनस्थितः ॥११५ ॥ (त्रिभिर्विशेषकम् ) दध्वने मधुरध्वान-रानकैरभयानकम् । अवामाः शिशिरास्त्यक्त-पांसवो वायवो ववुः ॥११६ ॥ नूतनाम्भोदगम्भीरं, गर्जन्ति स मतङ्गजाः। उत्तरङ्गास्तुरङ्गाश्च, बद्धहर्ष जिहेषिरे ॥ ११७ ॥ अनीकानि तपासूनो-देवकीनन्दनस्य च । मुदितानि मनांसीव, तदानीमेकतां ययुः॥११८ ॥ यादवी पाण्डवीया च, जाह्नवी-यमुने इव | संभूय चेलतुः सेने, गन्तुं संगरसागरम् ॥ ११९ । एकैकाऽपि चमः काम्या, किमु संवेलिते उभे । शौण्डीरता च नीतिश्च, यथा संजातसंगमे ।। १२० ।। उत्खातहेमभूपांशु-मांसलीकृतकान्तयः । प्रयाणपटहाऽऽहूता, धावन्ति स्म पुराङ्गनाः ॥ १२१ ॥ गवाक्षलक्षवामाक्षी-मुखैः कनकवेश्मभिः । चकाशेऽनेकशीतांशु-फलैः कल्पद्रुमैरिव ॥ १२२ ॥ जनैरेकमुखैः सर्वैः, प्रति | प्रस्थानवर्तनीम् । बभूवे सरितामोघे-रिव प्रति महानदीम् ॥ १२३ ।। दृष्ट्वाऽमृन्मा स्म भूदानो-खज्ञा निजवाजिषु । इतीव सप्तयः कुप्त-वितानाः पांशुभिर्ययुः ।। १२४ ॥ अजैषीत् कुञ्जरश्रेणि-मदकल्लोलपङ्किला । सिक्तं जम्बूरसैर्जाम्बू-नदादि काश्चनावनिः ॥ १२५ ॥ यावेकच्छविकौशेय-किरीटविकटयति । उग्रौवेयकवाण-निर्वाणानेकनिक्वणम् ॥ १२६ ॥ सुवर्णच्छविना साक्षा-तेजसेव निजप्रभोः। चीनांशुकेन संशोभि-पृष्ठं प्रातिष्ठतौष्टकम् ॥ १२७ ॥ (युग्मम् ) जयमङ्गलतूर्यस्य, गम्भीरैनिभिश्चिरात् । स्मार्यते स्म मुकुन्दस्य, सिन्धुनिर्मथनध्वनिः ॥ १२८ ॥ केतुकन्दलितै रत्न-पीवितार्कमरीचिभिः। रथैः | प्रास्थीयतोत्तीर्णे-विमानैरिव मेदिनीम् ॥ १२९ ॥ अङ्गमात्रेक्षणाकाङ्क्षः, कामिभिर्मुहुरीक्षिताः । याप्ययानैः पटच्छन्ना, राज १ मिलिते । २ 'लक्ष्य' प्रत्यन्तर० । ३ प्रयाणमार्गम् । ४ अश्वाः । ५ यावकः-अलक्तकः । - - For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy