SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ SASOSDASDOSSASGRASSA "रक्ष्यते नैव भूपालेर्न देवैर्न च दानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ॥१॥" । तच्छ्रुत्वा ते क्रूरा राजपुरुषा ऊचुः-गलात्तबर्कर इव किं पुनः पुनर्जल्पसि ? ' । इत्युक्तोऽपि स पुनः पुनस्तदेव पापठीति । ततस्तैः स राज्ञे समर्पितः। पेटिकापि दत्ता । राजा संशयापनमानसस्तमभाषत-'अहो त्वं सौम्यवपुर्वेषः । इदं करं चौर्यकर्म तवा|घटं' । ततो महाबलोऽवोचत्-" राजन् सर्वमेव हि घटते । परं तु विचित्रस्य दैवस्य न किंनिदेव दुर्घटं । यतः4 रक्ष्यते तपसा नैव न देवैन च मानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ॥१॥" नृपो जजल्प-'अहो कोऽसौ वटः ? का शाखा ? को महाबलः ?' इति राज्ञा भूयो भूय उक्तोऽपि स तदेव पपाठ । साश्चर्य सगर्भ तद्वचो ज्ञात्वा नरेश्वरस्तं बन्धनादुन्मोच्याभयं दत्वा पुनः पुनः पप्रच्छ । ततः स भूपाय यथातथं मात्रपाताहिदंशाचं सर्व वृत्तान्तमाख्यत् । तच्चौरादिष्टं वृत्तान्तं श्रुत्वा सर्पदष्टात्मदयितास्मृतिजारुषारुणदृशा नृपोऽवदत्--"अरेरे दैव नृशंस अरे बालस्त्रीवृद्धघातक चारवच्छिद्रवीक्षक तदा मम प्राणप्रिया ममाजानतस्त्वयाऽपजहे । अनया शौनवृत्त्या मा गर्वमुबह । मयि रक्षके सति एतस्य महाबलस्याधुना ग्रहीष्यसि तदा त्वां वरं सुभटं ज्ञास्ये" । इत्युदित्वा महीपालो गृहग्रासादिभिः सन्मानित स्वपुत्रमिव तं महाबलं पुष्टं चक्रे । दैवं च तर्जयामास । उवाच च-“भो महाबल यमस्य शिरसि पादं दत्वा क्रीडय'। ततो महाबलस्तत्र स्थितःका सुखं भुनक्ति । परं तु तया शाखया दृष्टया हृदि शल्यायामन्यत । अन्यदा राज्ञे स व्यजिज्ञपद्--" नरेन्द्र यदि तुष्टोऽसि तदा | |मां दरदेशांतरे प्रेषय । यथाहमिमां दृष्टिविषोरगी शाखां नो पश्यामि" | नृपतिनादिष्टं--"वत्स मा भैषीः दवकिंकरो मद्भुजाप Jain Educabu For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy