________________
ええそう
रहावभावादिकं कुर्वन्तीं दृष्ट्वाऽचिन्तयत्- 'धनाकांक्षया कुष्ठिना साकं विलसति । एतस्या अपि धनं मे न कल्पते' इति विमृशतस्तस्य बुद्धिरुत्पन्ना - 'अन्यैः पामरैर्जनैर्मुषितैः किं ? सकलार्थसाधके राजसौधे यामि' । इति विचार्यैकमानसः स राजमन्दिरे खात्रं प्रपात्यासौ प्रविष्टः । तत्र पल्यंकस्थं राज्ञ्या सह सुखनिद्रया सुप्तं राजानं दृष्ट्वाऽत्यन्तं मुदितः सन्निदं चिन्तयामास -- 'अहो मदीयं भाग्यं जागर्ति यश्चि| न्तामणिरिव सर्वकामप्रदो भृपतिः करे चटितः । तत्र रत्नदीपोद्योतैश्चारुहारावल्याद्यलंकारान् बहुद्रव्यपेटिका जिघृक्षुर्यावदीक्षते तावत् | कपाटच्छिद्रे प्रविशन्तं सर्पमेकमैक्षत । 'अरे अत्र पन्नगः किमयं कर्ता ? ' इति विस्मयात्तत्रैकान्ते निलीय स साहसिकाग्रणीस्तस्थौ । प वासवेश्मनि प्रविश्य शिरः कुन्तलगोफण के चटित्वा प्रसुप्ताया राज्ञ्याः करं च भालं च दंष्ट्वा व्याघुट्य निर्ययौ । तद् दृष्ट्वा कौतुकाद्विस्मयमनास्तस्करो निःशब्दं द्वारमुद्घाट्य सहसैव तमन्वगात् । ततः सौधात्समुत्तीर्य स फणी महापुष्टकायवृषभस्य रूपं बिभरांचक्रे । स वृषभः प्रतोल्या द्वारयामिकं दंडमु-पाट्य धावन्तं निपात्य शृंगाग्रेर्व्यापादयामास । चौरोऽपि तद्व्यतिकरं विलोक्य साहसमवलंब्य तं वृषभं निविडं द्वाभ्यां पुच्छे गृहीत्वा पृच्छति -- 'कस्त्वं भोः ? केन हेतुनतो व्यापादितौ ? किमधुना करिष्यसि ? ' सोऽनवान् मत्यैवाचाऽवोचत् - " भो मदुक्तं शृणु । अहं नागकुमारः सुरः । इमौ मम पूर्वभववैरिणौ । तस्मादहं राज्ञीप्राहरिको हन्तु - मिहागतः ” । चौरोऽप्याह-- ' यद्येवं तर्हि कथयाशु भोः सुन्दर मम कथं कुतो वा मृत्युर्भविष्यति ? ' । सुर ऊवे' भो भद्रेदं प्रश्चात्तापकां वचो मा प्राक्षीः ' । पुनर्निर्बन्धेन पृष्टे वृपांडवोचत्-- भोः शृणु, अस्मिन्नेव पुरे राजमार्गे महान् वटवृक्षोऽस्ति, तस्य शाखायामुद्धद्धस्य तब मृत्युर्भविष्यति " । पुनश्वरोऽवादीत् - ' सत्यं तवोदितं, तथापि किंचित्साभिज्ञानं वद ' । ततो वृषोऽवदत्-" श्वस्तने दिने मध्याह्नसमये राजप्रासादभृंगतः सूत्रधारः पतित्वा मृत्युमासादयिष्यति । तत्साभिज्ञानेन त्वमपि वटशाखाया
Jain Education International
For Personal & Private Use Only
%%%%
www.jainelibrary.org