________________
१३ ॥
परस्य नादत्ते सुधीस्तृणमेकमपि क्वचित् । स्पृष्टोऽङ्गुल्या हि मातंगः किं न मालिन्यकारकः ॥ ५ ॥ वैरवैश्वानरव्याधिवादव्यसनलक्षणाः । महानर्थाय जायन्ते वकाराः पञ्च वर्धिताः ॥ ६ ॥ तपस्यपि कृते प्रायः पापं चौर्यं कृतं नृणाम् । अभुक्तं क्षीयते नैव दृष्टान्तोऽत्र महाबलः ॥ ७ ॥ । अथ महाबलकथानकम् ।
अत्र भरते श्रीपुराभिधे नगरे मानमर्दनो राजा यथार्थनामाऽस्ति । तत्र नगरे बली महाबलाभिधः कुलपुत्रकोऽस्ति । तस्य पितरौ बाल्ये विपन्नौ । निरंकुशतया सर्वत्र भ्रमन् प्राग्दुष्कर्मदोषतां द्यूतव्यसनी जातः । क्रमेण सप्तव्यसनासक्तो जातः । यतःद्यूतं च मांसं सुराच वेश्या पापर्द्धिचौर्ये परदारसेवा ।
एतानि सप्त व्यसनानि लोके घोरातिघोरं नरकं नयन्ति ॥ १ ॥
स महाबलो महान् चौरव्यसनी जातः । क्रमेण स एकदा निशि चौर्यार्थं दत्ताख्यश्रेष्ठिनो गृहे प्रविष्टः । जालान्तरेणासौ गृहमध्यमत्रलोकते, तावद्विशोपकार्थं लेख्यके कलिं कुर्वन् पुत्रेण सार्धं दृष्टः श्रेष्ठी । तदा चौरोऽचिन्तयत् - " यः स्तोकव्यतिकरेणास्मिनिशाभरे निद्राविमुखः पुत्रेण सह कलिं कुरुते तस्य प्रभूतं वित्तं चेद्धरिष्ये तदा विशीर्णहृदयः सद्यो विपत्स्यते । तस्मान्निर्गत्या - न्यत्र यास्यामि " । इति विचार्य कामसेनायाः पण्यांगनाया भवने गदः । तत्रापि स दस्युर्ददर्श । निर्जितानंगरूपां कुष्ठिनो नानोपचा
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ४३ ॥
jainelibrary.org