SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सत्पात्रं विज्ञाय विद्या प्रदत्ता । स सन्न्यासी तां विद्यां गृहीत्वा देशान्तरे बभ्राम । स सर्वत्र स्वकीयधौतकानि प्रक्षाल्योच्चैराकाशे निराधाराण्युद्गमयति । साश्वर्यं जनास्तं पृच्छन्ति - 'स्वामिन्नियं महाविद्या भवद्भिः क्व प्राप्ता १ तदा स वदति - " भो जनाः पश्यत पश्यत । ममायं तपसः प्रभावः । नात्र गुरुप्रभावो नापि कश्विद्विद्या प्रभावः केवलं तपसः प्रभावः " । इत्युक्ते धौतकानि अधः पतितानि । मंत्रां गतः । अतः कारणाद् भी भव्या विलोकयन्तु मृषावादानुभावात्सद्विद्याप्यविद्या भवति तस्मान्मृषावादी वर्जनीय एव । ॥ इति मृषावादृष्टान्तः ॥ अथ तृतीयमणुव्रत मदत्तादानं । तस्यापि पञ्चातिचाराः । यथा स्तेनानुज्ञा तदानीतादानं राजविलंघनम् । प्रतिरूपक्रियामानादित्वं चास्तेयसंश्रिताः ॥ १ ॥ पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं परकीयं क्वचित्सुधीः ॥ २ ॥ तमभिलषति सिद्धिस्तं वृणीते समृद्धिस्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः । स्पृहयति सुगतिस्तं नेक्षते दुगतिस्तं, परिहरति विपत्तं यो न गृह्णात्यदत्तम् ॥ ३ ॥ - वैराग्यशस्त्रहतमोहतमोमलान्तर्दृष्टयापविष्टपरदृष्टहिताहितार्थः । - चौरोऽपि शुध्यति शमेन दृढप्रहारी, वापैति वा दवजवो जलदेन किंन ॥ ४ ॥ Jain Education International ܕ For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy