________________
श्र०
४२ ॥ ॐ
२०७
स्फटिकशिलाऽपहृता । ततो वसुमतीपतिर्वसुनृपः सद्यः सिंहासनाद्रुधिरं वमन् पतितः । ' कूटसाक्ष्यप्रदातुः श्वपचस्येव को मुखं पश्यति ? इति वसुनृपतिं निन्दन् नारदः स्वास्पदं ययौ । वसुनृपः कालधर्म प्राप्तः । मृत्वा नरकं गतः । तस्यापराधिनः क्रमेणाष्टौ पुत्रा निपातिताः । इत्यसत्यवचसः फलं ज्ञात्वा स्वप्नेऽप्यसत्यं सुधीनों वदति । यथा गलनवस्त्रेण जलं शुध्यति । यथा विवेकेन गुणवजः शुध्यति । यथा दानेन गृही शुध्यति । तथा वचः सत्येन शुध्यति । सत्यानुभावतो देवा अपि प्रसीदन्ति । द्रौपद्याः सत्यपञ्चकेनात्रेण शीघ्रं फलानि दत्तानि । हेमरत्नाम्बराणि बाह्याडंबरभूषणानि सन्ति । सत्यवचनालंकरणमन्तरंगभूषणमस्ति ।
कूटसाक्षी पराघाती परापवादजल्पकः । मृषावादी फल्गुवाची (क्यः) सर्वथा नरकं व्रजेत् ॥ १॥
परस्यापकारकं वचः तत्सत्यमपि नो सत्यं । यत्परस्योपकारकं वचस्तदसत्यमपि सत्यं । यत् हास्येनापरस्यालीकमुच्यते तदपि दुःखदायकं । विषं हर्षेण भक्षितं किं न मारयति ? 'हसंतो हेलया कम्मं रोअंता वि न छुट्टइ' इति सिद्धान्तोक्तं वाक्यं ज्ञात्वा चतुरो मृषावादपंकेन नो लिप्यते । एवं वसुभ्रुपाख्यानं निशम्य विशेषेण विशेषज्ञैरसत्यं वर्जनीयमेवेति ।
॥ इति मृषावाददृष्टान्तः ॥
विज्जाए कासवसंता आए दगसूअरो सिरिं पत्तो । पडिओ मुसं वयंतो सोनन्नवणाइअ अपच्छा ॥१॥
यथा सुदर्शनपुरे कोऽपि दिवाकीर्तिर्निवसति । तेन सेवां कृत्वा योगिनः सन्निधौ विद्या गृहीता । स च वस्त्राणि प्रक्षाल्य गगने निराधाराण्युद्गमयति । एको मस्करी तं नापितं याचितवान् - ' त्वमिमां सद्विद्यां मह्यं देहि ' । तच्छ्रुत्वा तेन नापितेन
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ४२ ॥
www.jainelibrary.org