________________
तारः पुमांस आपदा पदं प्राप्नुवन्ति । आःत्वया मुधा हारित" । पर्वतकोऽवादीद्-'मातः अथ किं करोमि यद् भवति तद् भवतु,जीवः कंटकमारूढः कृत्याकृत्यं नो वेत्ति । सा पर्वतकस्याम्बा दुःखपीडिता रहो वसुराजं प्रति समागात् । तदा वसुराजोऽप्यभ्युत्थितः। सन्मुखमागत्य पादयोर्निपत्योवाच-'मातः समादिशतु कार्य । किं करोमि ? किं प्रयच्छामि ?' साऽवादीत्-'महीपते पुत्रमिक्षा दीयतां मह्यं । पुत्रेण विना धनधान्यः किं प्रयोजनं?'। वसुभूपतिराह-'मातर्मम भ्राता पर्वतकस्तव पुत्रोऽस्ति । मम भ्रातरं को जिघांसुः कः पराभवति ?' । तदा तया वृत्तान्तः कथितः । जिह्वाच्छेदपणादिकं सर्वमचीकथत् । पुनः साऽवदत्-त्वं प्रमाणीकृतोऽसि तस्माचं भ्रातू रक्षार्थमजान्मेषानुदीरय । सन्तः प्राणैरुपकुर्वन्ति, किं पुनर्गिरा?" नृपोऽप्यूचे-"मातः सर्वथाहं मिथ्या न वच्मि । सत्यभाषिणः प्राणान्तेऽपि असत्यं न शंसन्ति । अन्यदपि शृणु, गुरुवागन्यथा पापभीरुणा कथं क्रियते ? कूटसाक्षी नरकार ब्रजति इति स्मृतावुक्तं' । इति श्रुत्वा तया सरोपया प्रोक्तं--'भूप त्वत्पाचे मया कदापि किंचिनो याचितं । अद्यैवाहमागता । देहि | मद्याचितं' । तदा पार्थिवोऽमस्त । क्षीरकदंबकगृहिणी प्रमुदिता गृहं ययौ । ततो नारदपर्वतको द्वाप्याजग्मतुः। वसुराज्ञा तयोः
सन्मानं दत्तं । आसने निविष्टौ । ततो नारदपर्वतको निजनिजपदव्याख्यानं कृत्वोचतुः--" त्वं सहाध्यायी । सत्यं ब्रूहि । त्वं सत्यपावादी। अजाशब्दस्य यद्वयाख्यानं गुरुणा कारितं तद्वद । त्वं साक्षी सत्यव्याख्यानं कुरु । सत्यात्सर्वं समीहितं संजाघटीति । राज्या
धिष्ठायिका देव्यो लोकपाला दश दिक्पालाः शृण्वन्ति । नरेश्वर सत्यं वद । रविः प्राची त्यक्त्वा परामुदेति कदाचित्, मेरुरपि प्रकंपते. परं सत्यधना नराः कथमप्यसत्यं न भापन्ते"। इति तयोर्वचः श्रुत्वा स्वसत्यप्रसिद्धिमवगणय्य वसुरवादीत्-'गुरुरजान्मेषान् व्याख्यत्' । इति कूटसाक्ष्यं नृपश्चकार । असत्यवचसा तस्य नृपस्य देवा रुष्टाः । देवैः सिंहासनात् पातितः । सा शुद्धा
श्रुत्वा तया सरोपया प्रोक्तं
ययौ । ततो नारदपर्वतको
। सत्यं ब्रूहि । त्वं सत्य-४
in Education International
For Personal & Private Use Only
www.jainelibrary.org