SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ * ad ****** ASAHARA* अथान्येद्युः कोऽपि व्याधः मृगार्थ मृगयां गतो बने बाणांश्चिक्षेप । ते बाणा अन्तराऽस्खलन् । स बाणास्खलनहेतुं ज्ञातुं तवा-14 ययौ। ततः स्फटिकशिला पाणिना स्पृशत्रज्ञासीत् । स मनसीति दध्यौ-"मृगो मयाऽस्याः परतश्चरन् भूमिच्छायेव दृष्टः। नूनं पाणिस्पर्शनं | विना शिलेषा सर्वथा नोपलक्ष्यते । तदियं शिला वसुमतीपतेर्वसुराजस्य योग्या" । इति विमृश्य रहस्तां शिलां वसुराजाय प्राभृतीकरोति स । राजा दृष्टस्तां शिलां जग्राह । तस्मै पारितोषिकं दानं ददौ। ततो नृपस्तस्याः शिलायाश्छन्नं खासनवेदिकां घटया-५ |मास । तदनु तं शिल्पिनमघातयत् । नृपाः कदाप्यात्मीया न भवन्ति । तत्र सिंहासनं निवेश्य नृप उपविशति । तदा सर्वेऽप्येवं वद|न्ति-'वसुभूपतिः सत्यप्रभावान्निराधारसिंहासन उपविशति' । अथ सत्यप्रभावाद्देवाः सान्निध्यं कुर्वन्ति । एवं यशस्विनी प्रसिदिर्दिशो दिशं सर्वत्र व्याप्ता । तया प्रसिद्ध्या राजानो भीताः सर्वेऽपि वश्यमाययुः । तस्य सर्वत्रैव जयोऽभूत् । इतश्चैकदा नारदो भ्रमन्निष्टपर्वतकस्य गुरुभ्रातुर्मिलनाय तत्रागात् । तदा तत्र पर्वतको विद्यार्थिनामजैर्यष्टव्यमिति वेदपदस्य व्याख्यानं कारयति । अजैषर्यष्टव्यं तन्निशम्य नारदो बभाषे-"भ्रातः किं मुधा भ्रान्त्याऽलीकं जल्पसि ? गुरुभिरजस्त्रिवार्षिकबीहिभिर्यष्टव्यमिति व्याख्यातमस्ति । न जायन्त इत्यजा इति व्याख्याताः। तत् केन हेतुना व्यस्मार्षीः" । ततः पर्वतकोऽवादी-'ताते नेदं नोक्तं, किं त्वजा मेपा उक्ताः' । पुनर्नारदोऽपि जगाद--"शब्दानामर्थकल्पना नैकधाऽस्ति । किं तु गुरुपादा दयावन्तः । कतैमषा नोक्ताः । मित्र मा पापमर्जय" । पुनः साक्षेपं पर्वतकोऽजल्पत्–'त्वं मुधा जल्पसि' । तावेवं वादं कुर्वन्तौ स्वस्वपक्षस्थापने जिह्वाच्छेदपणं चक्रतुः । ताभ्यां प्रतिज्ञा कृता-आवयोः सहाध्यायी वसुनृपः सत्यभाषी, स यज्जल्पति तत्सत्यमिति। ततोऽम्बा रहा। * पर्वतकमूचे-"वत्स तव पित्राऽजास्त्रिवार्पिकत्रीहयो व्याख्याताः । त्वया जिह्वाच्छेदपणः कथं कृतः ? वत्स शृणु, अविमृश्य विधा ******5 ॥४१॥ in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy