________________
*
पाव
चरित्र
॥४०॥
एकाक्षरप्रदातारं यो गुरुं नैव मन्यते । शुनो योनिशतं भुक्त्वा चांडालेष्वपि जायते ॥१॥ एकमप्यक्षरं यस्तु गुरुः शिष्यं निवेदयेत् । पृथिव्यां नास्ति तद् द्रव्यं यद्दत्वा त्वनृणीभवेत् ॥ २॥
ते त्रयोऽपि नानाविधानि पांडित्यशास्त्राणि पठन्ति । पुरुषाः शास्त्राभ्यासात्सर्व समीहितं प्राप्नुवन्ति । यतःविद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः।। विद्या बन्धुजनो विदेशगमने विद्या परा देवता, विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः।।१।। .. उपाध्यायस्तेषामादरेण पाठयति । अन्यदा रजन्यां सौधमूर्ध्नि तेषां पठतां गुरौ जाग्रति सति श्रमवशात् क्षणं निद्रा समागता । | तदा गगने यान्तौ चारणश्रमणावुभौ तानिशम्य परस्परमवोचतां-'एतेषां छात्राणां मध्ये एको मोक्षमाग्भविष्यति, अपरौ नरकं यास्यतः' । क्षीरकदंबकोपाध्यायस्तच्चाौपीत् । तच्छ्रुत्वा सहसा म्लानमानसः संजातः । उपाध्यायोचिन्तयत्-" इदं वचो दुःश्रवं, धिक्, मय्यध्यापके शिष्यौ नरकं यास्थतः । केनापि ज्ञानिनोदितमिदं वचो नालीकं भवति"। ततो मोक्षं को यास्यति नरकं को | यास्यत इति ज्ञातुं प्रभाते त्रीनपि शिष्यानाकारयत् । एकैकं पिष्टकुर्कुटं तेषां समर्प्य क्षीरकदंबक उवाच-'यत्र कोऽपि न पश्यति तत्रामी वध्याः' । इदं गुरुवचः श्रुत्वा वसुपर्वतको कुर्कुटी गृहीत्वा शून्यदेशे गतौ । तत्र कुर्कुटी हतौ । नारदस्तु कुकुटं गृहीत्वा पुरादाहिब्रजित्वा नियंजनप्रदेशे गत्वा स्थित्वा च चेतसीति चिन्तयति-- "गुरुपादेरिदमादिष्टं यत्र न कोऽपि पश्यति तत्रायं वध्य इति । परं पक्षिणः पश्यन्ति, वृक्षाः पश्यन्ति " | ततः पर्वते गुहायां गतः । तत्र च चिन्तयति-" अत्र लोकपालाः सिद्धाश्च पश्य
***CRICALC
॥४०॥
For Personal & Private Use Only