SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ *% *% * 496k तस्याग्निर्जलमर्णवः स्थलमरिर्मित्रं सुराः किंकराः, कान्तारं नगरं गिरिगृहमहिर्माल्यं मृगारिर्मृगः । पातालं बिलमस्त्रमुत्पलदलं व्यालः शृगालो विषं, पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ॥ २ ॥ मन्मनत्वं काहलत्वं मूकत्वं मुखरोगताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यासत्यमुत्सृजेत् ॥ ३ ॥ कन्यागो भूम्यलीकानि न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति स्थूलासत्यानि कीर्तयेत् ॥ ४ ॥ तथा च घोरां दुर्गतिमेत्यलीकलवमप्यभ्यर्थितोऽपि ब्रुवन् वादे नारदपर्वताख्यसुहृदोर्यद्वद्वसुर्भूपतिः । चक्रेऽचविधुरो विरञ्चिरनृतात् केचित्प्रनष्टाः सुराः, साक्षात् किं न हरिर्भवेच्च महितः सत्यात्परीक्षाक्षणे ॥ ५॥ अत्र व्रते वसुराजाख्यानं कथ्यमानं निशम्यतां - अत्र भरतक्षेत्रे शुक्तिमती नाम नगरी वर्तते । या सर्वनगरीषु स्वशोभया रराज । तस्यां सकलभूपतिशिरडामणिसमः स्वतेजसा ध्वस्तवैरितमोभरः श्रीमानभिचन्द्रो नरेश्वरो राज्यं करोति । तस्य कमलावतीनाम्नी पट्टी । तयोर्वेपयिकं सुखमनुभवतोर्वसुनामा सुतः समजनि । स महामतिर्नाल्यादपि सत्यव्रतासक्तोऽस्ति । क्रीडन्नपि सत्यं बदति । स विनयी नयी गुणोदधिः सकलकलाकुशलः । विशेषतोऽपि सत्यं तस्याभीष्टमस्ति । स्वप्नेऽपि तस्यासत्यं न रोचते । तत्र क्षीरकदंबक उपाध्यायां ब्रह्मविद्यानिपुणः सकलशास्त्रविशारदो निवसति । तस्य पर्वतकाभिधः सुतोऽस्ति । वसुपर्वतका तथाऽन्यो देशान्तरादायाती नारद एते त्रयोपि क्षीरकदंब कोपाध्यायसमीपे शास्त्राण्यहर्निशं पठन्ति । ते त्रयोऽपि गुरुभक्तिं वितन्वन्ति । यतः — Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy