________________
गर्श्व०
३९ ॥
| दत्त्वाऽनशनं गृहीत्वा धर्मध्यानैकमानसौ विपद्य स्वर्गतौ । भूभुजा विज्ञप्तं - ' स्तोकजल्पनेनैवंविधा व्यवस्था स्यात्तदा मादृशानां कागतिः ? धिक् संसारं ' । ततो जसादित्यसंयुतो नृपश्चारित्रमग्रहीत् । चौरोऽपि चारित्रमग्रहीत् । तपस्तत्रा त्रयोऽपि स्वर्गं ययुः । कठो| वचनस्यैवंविधं फलं ज्ञात्वाऽऽक्रोशदानाद्यं प्रयत्नतो वर्जनीयमेवेति । आस्तां वचनकायाभ्यां मनसापि हिंसा चिन्तिता स्वजीवविघातकरी नरकदुःखदायिनी भवति । तथाहि — कोऽपि रंकः पुरा वैभारगिरिपर्वतोद्यानपाटिकायां गतः । तत्र भिक्षामलभमानेन तेन निजकर्मदोषतो हृदि चिन्तितं - ' अहो भक्ष्यभोज्येषु सत्स्वपि भिक्षां मे न ददाति तर्ह्यहं सर्वान् हनिष्यामि ' । इति रौद्रध्यानं | संचिन्त्य पर्वतमारुह्यकं महोपल निर्दयं मूलादुच्चालयामास । तेन महोपलेनाधः पतता जनः सर्वोऽपि प्रणष्टः । स एव च चूर्णितो मृत्वा नरकं गतः । अतः कारणान्मनसा वचनेन कायेन च जीवहिंसा त्याज्या ।
॥ इति जीवहिंसायां व्याख्यानं व्याख्यातं ॥
द्वितीयमणुव्रतं मृषावादवतं । तत्र व्रते पश्चातिचारास्त्याज्याः ।
मिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् । विश्वस्तमंत्रभेदश्च कूटलेखश्च सूनृते ॥ १ ॥
सत्यवचसा देवा अपि सान्निध्यं कुर्वन्ति । यतः -
न वहति नदी नीरापूर्णा प्रशाम्यति पावको, हरिकरिमहासर्पा रेखां न लंघयितुं क्षमाः । प्रभवति विषं भूतं नो वा न चापि महायुधं, किमिह बहुना सत्यासक्तात् सुरोऽपि पलायते ॥ १ ॥
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ३९ ॥
www.jainvelibrary.org