SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ० ३७ ॥ करणार्थं देवदत्तो गतः । तदा पथि दावानलो दृष्टः । तत्रैकः सर्पो ज्वलन्नाकुलो दृष्टः । देवदत्तेन कृपार्द्रमनसा सर्पः कर्षितः । कष्टा - प्रक्षितः । एकदा भोजनार्थमुपविष्टस्तदा मासक्षपणकसाधुस्तत्रागात् । स मुनिस्तेन प्रतिलाभितः । स देवदत्त आयुःक्षये मृत्वा राजंस्त्वं जातः । पूर्वभवे त्वया मुनिः प्रतिलाभिस्तेन पुण्येन त्वं राज्यं प्राप्तः । तथा पूर्वभवे त्वया सर्पः कष्टाद्रक्षितस्तस्मात् कष्टमपि विलयं गतं । तब पूर्वभवभ्राता सोमदत्तः कापालिको जातः । पूर्वमवाभ्यासाधयि विषये द्वेषवान् जातः । सर्पस्य रक्षणात्तव कष्टं नष्टं । इति ज्ञात्वा भीमराज त्वया सर्वजन्तुषु हिंसा त्याज्या दया च पालनीया " । इति श्रुत्वा नृपस्य जातिस्मरणं समुत्पन्नं वैराग्यमवाप । नृपेण गुरूणां विज्ञप्तं - ' भगवन्नत्र चतुर्मासीमवतिष्ठतु, यथा मम महान् लाभो भविष्यति । ततो गुरवः शुद्धोपाश्रये चतुर्मासिकं स्थिताः । राज्ञा समस्तदेशेष्यमारिपट होद्घोषणा कारिता । जिनभवनानि कारितानि नित्यं व्याख्यानश्रवणं करोति । चतुर्मासिकान्ते गुरुसमीपे चारित्रं प्रतिपन्नं । गुरुभिः सह बिहारं कुर्वन्निरतिचारं चारु चारित्रं प्रतिपाल्य पर्यन्ते केवलं प्राप्य परमपदं प्राप । ॥ इति दयाविषये श्री भीमनृपकथा || अतो हेतोर्धर्मार्थिना पुंसा दया पालनीया । निपुणनरेण कठोरवाक्यमपि नो जल्पनीय । अत्र मातृपुत्रयोश्चन्द्रासर्गाह्वानयोनिदर्शनं शृणुत । तथाहि - अत्रैव भरताभिधे क्षेत्रे वर्धमानपुरं नगरं सुन्दरमस्ति । तत्र सिद्धडो नाम कुलपुत्रो वससि । तस्य चन्द्राभिधा भार्याऽस्ति । तयोः सर्गो नाम पुत्रोऽस्ति । अथ त्रयोऽप्यमी कर्मवशतोऽतीव दुःखिताः । यतः - खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके, वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥१॥ Jain Education International For Personal & Private Use Only चरित्र 11 30 11 www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy