SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ० ३७ ॥ करणार्थं देवदत्तो गतः । तदा पथि दावानलो दृष्टः । तत्रैकः सर्पो ज्वलन्नाकुलो दृष्टः । देवदत्तेन कृपार्द्रमनसा सर्पः कर्षितः । कष्टा - प्रक्षितः । एकदा भोजनार्थमुपविष्टस्तदा मासक्षपणकसाधुस्तत्रागात् । स मुनिस्तेन प्रतिलाभितः । स देवदत्त आयुःक्षये मृत्वा राजंस्त्वं जातः । पूर्वभवे त्वया मुनिः प्रतिलाभिस्तेन पुण्येन त्वं राज्यं प्राप्तः । तथा पूर्वभवे त्वया सर्पः कष्टाद्रक्षितस्तस्मात् कष्टमपि विलयं गतं । तब पूर्वभवभ्राता सोमदत्तः कापालिको जातः । पूर्वमवाभ्यासाधयि विषये द्वेषवान् जातः । सर्पस्य रक्षणात्तव कष्टं नष्टं । इति ज्ञात्वा भीमराज त्वया सर्वजन्तुषु हिंसा त्याज्या दया च पालनीया " । इति श्रुत्वा नृपस्य जातिस्मरणं समुत्पन्नं वैराग्यमवाप । नृपेण गुरूणां विज्ञप्तं - ' भगवन्नत्र चतुर्मासीमवतिष्ठतु, यथा मम महान् लाभो भविष्यति । ततो गुरवः शुद्धोपाश्रये चतुर्मासिकं स्थिताः । राज्ञा समस्तदेशेष्यमारिपट होद्घोषणा कारिता । जिनभवनानि कारितानि नित्यं व्याख्यानश्रवणं करोति । चतुर्मासिकान्ते गुरुसमीपे चारित्रं प्रतिपन्नं । गुरुभिः सह बिहारं कुर्वन्निरतिचारं चारु चारित्रं प्रतिपाल्य पर्यन्ते केवलं प्राप्य परमपदं प्राप । ॥ इति दयाविषये श्री भीमनृपकथा || अतो हेतोर्धर्मार्थिना पुंसा दया पालनीया । निपुणनरेण कठोरवाक्यमपि नो जल्पनीय । अत्र मातृपुत्रयोश्चन्द्रासर्गाह्वानयोनिदर्शनं शृणुत । तथाहि - अत्रैव भरताभिधे क्षेत्रे वर्धमानपुरं नगरं सुन्दरमस्ति । तत्र सिद्धडो नाम कुलपुत्रो वससि । तस्य चन्द्राभिधा भार्याऽस्ति । तयोः सर्गो नाम पुत्रोऽस्ति । अथ त्रयोऽप्यमी कर्मवशतोऽतीव दुःखिताः । यतः - खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके, वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥१॥ Jain Education International For Personal & Private Use Only चरित्र 11 30 11 www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy