SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Jain Educa जग्मुः । भोजनानन्तरं नृपेण भीमस्य भीष्टमतिसागरः पृष्टः । ततो मतिसागरो भूभुजः पुरो यथावृत्तं सर्वमाचख्यौ । नृपः संतुष्टः । पित्रा बही राजसुताः परिणायिताः । क्रमेण स्वराज्येऽभिषिक्तः । स्वयं गुरोः पार्श्वे दीक्षामुपाददे । भीमनरेन्द्रो जिनधर्मप्रभावको जातः । क्रमेण त्रिखंडभोक्ता जातः । तस्य दोगुंदकामरवत्सौख्यं भुञ्जतः पञ्चत्रिंशद्वर्षसहस्राणि जातानि । अन्येयः क्षमासागरा आचार्या गुरवश्चतुर्ज्ञानधरा बहुसाधुपरिवारवृताः सहस्राम्रवणे समवासार्षुः । वनपालेन वर्धापनिका दत्ता । अंगसंलग्नान्याभरणानि तस्य दत्वा नृपः सपरिकरो गुरून् वन्दितुं समागतः । गुरून् समस्तसाधूंश्वाभिवंद्य यथास्थानं निविष्टः । गुरुभिर्भवतारिणी भव्यजीमनोहारिणी कर्णसौख्यकारिणी धर्मदेशना प्रारब्धा । यतः 66 अवाप्य धर्मावसरं विवेकी कुर्याद्विलंबं न हि विस्तराय । यतो जिनस्तक्षशिलाधिपेन रात्रिं व्यतिक्रम्य पुनर्न नेमे ॥ १ ॥ अपार संसारे कथमपि समासाद्य नृभवं, न धर्मं यः कुर्याद्विषयसुखतृष्णातरलितः । ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ २ ॥” इत्यादि बहुधा धर्मदेशनां श्रुत्वा जातसंवेगो नृपतिरवादीत् --: भगवन् मया पूर्वभवे किं पुण्यं विहितं १ येनेप्सितं सौख्यं लब्धं ' । तदा गुरुराह - " राजन् शृणु । प्रतिष्ठानपुरे देवदत्तसोमदत्तनामानो द्वौ भ्रातरौ निवसतः । तौ परस्परं मत्सरिणौ स्तः । पूर्वभवाभ्यासात्तावमर्षिणौ । वृद्धबन्धुः पुत्राभावाद्बहुस्त्रीणां पाणिग्रहणं कृतवान् । तथापि पुत्राभावः । अन्यदैकस्मिन् ग्रामेऽवग्रहणी national For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy