________________
२५८८*
X4%
संहृत्य प्रत्यक्षं चलत्कुंडलभूषाढ्यो यक्षो जातः । ततो मुनिनाभाणि - ' अहो यक्षराज त्वया गजरूपं विधाय स्वपुत्र हेमरथं रक्षितु भीमकुमार इहानीतः ' । यक्षेणोक्तं- " भगवन् सत्यमेव । प्राच्यजन्मनि हेमरथो ममाङ्गजः । प्राग्भवस्नेहान्मया हेमरथरक्षणाथ भीमोऽत्रानीतः । मया पूर्वजन्मनि सम्यक्त्वमङ्गीकृत्य कुसंसर्गेण दूषितं । तेनाहं व्यन्तरो जातः । पुनर्मम सम्यक्त्वमारोपय" । तदा मुनिपुंगवो यक्षरक्षोनृपादीनां सम्वत्वं विधिनाऽदात् । भीमेन कुपाखंडिसंसर्गाच्छुद्धिरर्थिता । मुनिनाऽऽलोचना दत्ता । अथ सर्वेऽपि कुमारादयो मुनीश्वरं नत्या हेमरथनृपस्य भवनं जग्मुः । तत्र हेमरथो नृपः कुमारं प्रणिपत्य व्यजिज्ञपत् – “अथ मया यज्जीव्यते राज्यसंपच्च भुज्यते तन्मर्व कुमार जगतां सार तवैव माहात्म्यं । अहं भवदादेशकारी । अहं किञ्चिद्विज्ञपयामि, तत्कुरु । मम मदालसा नाम सुताऽस्ति तस्याः पाणिग्रहणं कुरु" । कुमारेण तस्याग्रहात्सा कन्या परिणीता । अत्रान्तरे कालिका कापालिकान्विता विंशतिभुजा विमानमधिरुह्य तत्र प्राप्ता । कुमारमभिवन्द्योपविष्टा । ततस्तयोक्तं-- “ अहो भीम मदीयं हारं गृहाण । अस्मिन् हारे नव रत्नानि सन्ति । तेषां प्रभावात्तव त्रिखंडाधिपत्वं खे गमनं च भविष्यति । नृपाः सर्वेऽपि तवाज्ञाकारिणो भविष्यन्ति । अथ च तव मातापितरौ पुरलोकाथ तव विरहादतीव दुःखिताः सन्ति । तव दर्शनमभिकांक्षन्ति । अहं विमानमारुह्य तब नगरो - परि गता तदा तब पितरौ पौरजनाश्च तव गुणान् मुहुर्मुहु: स्मारं स्मारं विलपन्तो दृष्टाः । तदा तान् प्रति मयोक्तं-- भो भोविन्तां मा कुरुथ, मया दिनद्वयस्यान्तं भीमोऽत्रानेतव्य इति । तस्मात्त्वया तत्र गन्तव्यं " । इति श्रुत्वा भीमस्तत्र गन्तुमुत्सुको जातः । तदा यक्षो विमानं विकुर्व्यात्रिचीत-- कुमारास्मिन् विमाने समारुह्य पितुः पुरे गन्तव्यं । नृपेण गजतुरंगमादिकं बहुवस्त्राणि द्रव्याभरणरनादीनि दत्तानि । अथ भीमकुमारो नृपं हेमरथं संबोध्य तद्विमानमारुह्य कन्यामंत्रिसंयुतः स्वपुरं प्रति चचाल । गजतुरंगमपायिकाः
Jain Education International
For Personal & Private Use Only
%%**
www.jainelibrary.org