SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द विचार्य चंडपुरोहितस्तप्ततैलसेकतः कदर्थ्य मारितः । सोऽकामनिर्जराभावान्मृत्वा सर्वगिलाभिधो राक्षसो जातः । सोऽहम् । पूर्वभव वैरादहमिहागतः । सर्वपुरलोको मया तिरोहितः । मया सिंहरूपं विकुळ हेमरथोऽयं नृपो गृहीतः । त्वया महात्मना एनं नृपं मोच|यित्वा मम चमत्कारश्वके। तवानुभावान्मयाऽयं मुक्तः । मयाऽदृश्येन तव स्नानभोजनोपचारः कृतः। तवानुवृत्या मया लोकोऽपि प्रक|टितः" । तच्छ्रुत्वा कुमारेण यावत्पुरे आलोकितं तावदखिलो जनो दृष्टः । राजवर्गोऽपि प्रकटितो दृष्टः । अत्रान्तरे सुरासुरैः स्तूयमानधारणश्रमणमुनियॊग्ना गच्छन् कुमारेण ददृशे । पुराद्ध हिः समवसृतः । तदा भीमेनोक्तं-" राक्षसेन्द्र ममायं गुरुः । अस्य पादांमोरुहमभिवंद्य निजं भवं सफलीकुरु । यत उच्यते जिनेन्द्रप्रणिधानेन गुरूणां वन्दनेन च । न तिष्ठति चिरं पापं छिद्रहस्ते यथोदकम् ॥१॥” । । ततः कुमारो मंत्री रक्षो हेमरथनृपः सर्वेऽपि मुनिसन्निधौ जग्मुः । तैर्भूतलन्यस्तमस्तकैर्मुनिः प्रणतः । पौरैरप्यागत्य प्रणतः । मुनिनाथेन देशना प्रारब्धा । यथा" कषाया भवकारायां चत्वारो यामिका इव । यावज्जाग्रति पार्श्वस्थास्तावन्मोक्षो नृणां कुतः ॥ १॥ व्याख्या-अहो भव्याः कषायाश्चत्वारः सन्ति । तत् श्रूयताम्स्युः कषायाः क्रोधमानमायालोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः॥ १ ॥ पक्षः संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥ २ ॥ Latin Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy