________________
लापं श्रुत्वाऽमर्षाभिपूरितो दध्यौ - ' अयं पापो मदीयं मंत्रिणं विडंबयति ' । ततो हक्कित्वा प्रकटीभूयोवाच - ' सोऽहं भीमः सर्वेषु जन्तुषु सौम्यः तव संहारकरणे भीमोऽस्मि ' । ततोऽसौ कापालिको मंत्रिणं मुक्त्वा भीमसंमुखं चलितः । भीमेनापि साह - | समवलंब्य लुलित्वाशु पद्भ्यां धृत्वा भूमौ स पातितः । केशेषु धृत्वा हृदि चरणौ यावत्ताडयति भावयति, तावद्देव्याकुलाऽवदत्“ भो भो भीम मा मारयैनं । एप कापालिको मम महावत्सलः शिरः कमलैर्मदीप्सितं करोति । अस्याष्टोत्तरशतैः पूर्णैः सेत्स्यामि । प्रत्यक्षीभूयास्येप्सितं दास्यामि । अधुना वत्स त्वमागतः । तत्र पौरुषेण तुष्टाहं । अभीष्टं प्रार्थय" । ततो भीमोऽवदत्-" मातयदि मम तुष्टासि प्रियं च दत्से तदा मनोवाक्कायैर्जीवहिंसां परित्यज । मातः शृणु, धर्मस्य बीजं जीवदयैव । तया च सर्वसमीहितं स्यादेव । तवापि केवलं दयैव विलोक्यते । हिंसया संसारे भ्रमणं भवति । मातस्तस्माद्धिंसा त्याज्या । उपशमं भज " । ततस्तद्वा| क्यामृतसंसिक्ता देवी लज्जिता मनसि दध्यौ - ' अहोऽस्य कीदृशं पौरुषं ? कीदृशं सतं ? मनुष्यत्वे कीदृग् महाबला मतिः ? ' इति ध्यात्वा सा कालिकाऽवदत्-वत्स शृणु मयाद्यप्रभृति सर्वोऽपि जीवराशिः स्वजीवितव्यवद्रक्षणीय: ' । इत्युक्त्वा कालिकाश्याऽभूत् । अथ मतिसागरी मंत्री लब्धक्षणो भीमं ननाम । भीमोऽप्यश्रुजलपूर्णाक्षो मित्रमालिंग्य पृष्टवान् -- 'अनेन पापिना | कापालिकेन त्वमपि दारुणावस्थां कथं प्रापितः ? ' । मंत्री प्राह - " प्रभो शृणु, रात्रिप्रथमप्रहरे तवौकसि प्रिया समायाता । ता| वच्त्वां नैक्षत । ततस्तया संभ्रांतया यामिकाः पृष्टाः । ते सर्वेऽपि त्वां विलोकयन्तस्त्वामपश्यन्तश्च गत्वा राज्ञे न्यवेदयन् । ततो भूपस्त्वां | सर्वत्राशोधयत् । कुत्रापि शुद्धिर्न प्राप्ता । तावच्चिन्तितं ' वत्सः केनाप्यपहृतः' इति ब्रुवन् नृपः सिंहासनात् पपात । सहसा मूर्छा | प्राप । मातृवर्गोऽपि मुमूर्छ । ततश्चन्दनरससंसिक्ताः कथमपि चेतनामापुः । राजा राइयो मंत्रिणश्च सर्वेऽपि विलपितुं लग्नाः । ताव
Jain Education International
For Personal & Private Use Only
र्श्व०
३३ ॥
चरित्र
॥ ३३ ॥
www.jainelibrary.org