SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ नानास्थिमयभित्तिस्थनृमुंडकापशीर्षकम् । कंकालकल्पितद्वारं दन्तिदन्तोरुतोरणम् ॥ १ ॥ केशपाशपताकाढ्यं लंबितासितचामरम् । व्याघ्राजिनकृतोल्लोचं रुधिरारुणभूतलम् ॥ २ ॥ तत्र भवने भीमेन मुंडमालास्त्रधारिणी क्रूराक्षी महिषारूढा कालिकामूर्तिर्दृष्टा । तस्याः पुरः स एव शठः पापिष्ठो रुष्टो धृष्टः पाखंडी कापालिको वामहस्तेन सुन्दरं नरं बिभ्राणो दृष्टः । यस्यां भुजायामारूडो भीमः समागतः सा कापालिकस्य वामेतरा भुजा । " करे गृहीतस्य किं करिष्यत्यसौ तत्प्रच्छन्नीभूय वीक्षेऽहं पश्चाद्यथोचितं करिष्ये' इति निश्चित्य भुजायाः सहसोत्तीर्य तस्यैव भवनस्य पृष्ठे निलीय रहः स्थितः । ततः कापालिको भुजायाः खड्गमादाय वामकरात्तं नरमब्रवीत् - 'रे वराकाभीष्टां देवतां स्मर, | अनेनासिना तव शिरश्छित्वा देवतां पूजयिष्यामि । तच्छ्रुत्वा स नः प्राह - " त्रिजगज्जीववत्सलवीतराग एव शरणमस्तु मे । तथा कुल क्रमादागतः परोपकारी पुण्यवान् मम प्राणाधिकतरो दयावान् जिनधर्मरसिको मम मित्रं हरिवाहननन्दनी भीमकुमारः शरणं । यो मया वारितोऽपि कापालिकेन सार्धं कापि गतः, स एव भीमकुमारो मम शरणमेवास्तु । यथेप्सितं कुरु शीघ्रं " । तदा पाखंडी प्राह-- "रे मूर्ख स मया लक्षणवान् ज्ञात्वा तस्य शिरश्छेदेन देवीपूजा प्रारब्धा । स मम करान्नंध्वा क्वापि गतः । 'तल्लक्षणोऽसि । तत्स्थाने त्वमिहानीतोऽसि । तेन निःसच्चेन स्मृतेन किं । किं च देव्या मम कथितं । तत्र स्वामी विन्ध्याचलगुहासन्नश्वे तभिक्षुसमीपे स्थितोऽस्ति । तस्य खड्गः सल्लक्षणत्वेनेहानीतः । रे मूर्ख स इहागत्य कथं तत्र रक्षिता भविष्यति ? " । भीमस्तदा१ सहक्षणोऽसि इति वा पाठ: । Jain Education International For Personal & Private Use Only ৭%%%%%%%%%96% www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy