________________
४०
१२ ॥
विसयविसं हालाहलं विसयविसं उक्कडं प्रीयंताणं । विसअविसा अन्नं पिव विसयविस विसूइया होई ॥१॥ सलं कामा विसं कामा कामा आसीविसोपमा । तम्हा कामं परिच्चजा सग्गं गच्छति तीरओ ॥ २॥ मातस्त्वयेदृशं न वाच्यं । त्वं मम मातैव " इत्युक्त्वा तस्या देव्याश्चरणयोः पतितः । अथ यक्षिणी तुष्टा प्राह-' वत्स त्वं साहसिकाग्रणीः । वरं वृणीष्व ' । तदा भीमोऽवक्- ' मातस्त्वत्प्रसादेन सर्वमेव ममास्ति ' । ततो देवी जगौ -' वत्साजेयो भव त्वं ' । कुमारेणोक्तं- ' मम जिन एव शरणम् । देव्याप्युक्तं - 'ममापि जिन एव शरणं' । तयोरित्येवं मिथः संलपतोः कुतोऽपि मधुरध्वनिं भीमः शुश्राव । तस्याः पृष्टं -' कस्यायं ध्वनिः श्रूयते ? ' । साऽब्रवीत् - " अस्मिन् विन्ध्याचले मुनय उपोषिताश्चतुर्मासीं सस्थिताः | सन्ति । ते धन्या अधुना स्वाध्यायध्यानकृत्यतत्पराः सन्ति । तेषामयं ध्वनिः " । ततो भीमोऽवदत्- ' तत्राहं गत्वा तान् वन्दित्वा निजं जन्म सफलीकरोमि । इत्युक्त्वा भीमस्ततो निर्गतः । यक्षिण्याऽध्वा दर्शितः । कृतनानासनाभ्यासास्तपोधना यत्र वसन्ति तत्र. गत्वा भीमः साधून् वन्दते स्म । सापि यक्षिणी सपरिवारा मुनीन् वन्दितुं समागता । तत्र द्वावपि मुरीकुमारौ धर्मध्यानसमाहितान् । साधून् वन्दित्वा स्वाध्यायं शृण्वाते । अनुमोदनां चक्राते ।
"इतचैकां कांचिद् गगनादायान्तीं महाभुजां भीमो ददर्श । कालदंड इवाकस्मात् कुमारस्य सन्निधावपतत् । भीमेन चिन्तितं'किं करिष्यत्यसौ' ? इति चिन्तयन् प्रेक्षते, तावत्सा भुजा भीमस्य खड्गमादायाचलत् । ' दीर्घा कृष्णा कस्येयं भुजा, क यास्यतीति ' विचिन्त्य सकौतुकः कुमारो द्रागुत्प्लुत्य ताम। रुरोह । तस्यां व्रजन्त्यामारूढो भीमोऽनेकनदीपर्वतकाननानि पश्यन् क्रमेण कालिकाभवनभुवि प्राप । कीदृशं कालिकाभवनं :
Jain Education International
For Personal & Private Use Only:
चरित्र
॥ ३२ ॥
www.jainelibrary.org