SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शिरो ग्राह्यं । इति विमृश्य करिकाकरो व्योमसमं निजं रूपं कृत्वा कोपभराक्रान्तो विकटं गर्जन् भीमं जगाद-" रे बाल तव शिरः पराक्रमेणेव गृह्णामि । स्वयं चेदर्पयसि तदागन्तुकमवे सुखी भवसि"। ततो भीमेनाभाणि-- रे चांडाल पाखंडिक मायिक ॐ त्वामेव हन्मि' । ततः पाखंडिना भीमोपरि शस्त्रघातो मुक्तः। भीमस्तं शस्त्रघातं छलयित्वा कृपाणं करे कंपयन् शीघ्रमुत्प्लुत्य तत्स्कन्धमारूढवान् । तदा भीमः करवालललजिह्वः सिंह इव तत्स्कन्ध आरुढोऽधिकं शुशुभे । ततो भीमो दध्यौ'एनं मारयामि ।' पुनरेवाचिन्ति–'छबना किं मारयामि? यदि जीवन् सेवां चक्रे तदा वरं' । इति ध्यायन् स कुमारश्चरणयोधृत्वा कापालिकेनाम्बरे उच्छालितः । ततः स भीमः पतन् यक्षिणीदेव्या करसंपुटे गृहीत्वा निजमन्दिरे नीतः । तत्रोत्तुङ्गचङ्गविस्तीर्णदिव्यरत्नमयसिंहासने उपविश्य भीमकुमारं प्रति यक्षिणी सुरी जगौ-"भोः सुभग अयं विन्ध्याचलः । ममेदं वैक्रिय भवनं । क्रीडार्थमत्र वसामि । अहं कमलाख्या यक्षिणी । अद्याहं निजपरिवारपरिवृताऽष्टापदाचलं गताऽभूवं । पश्चाद्वलन्त्या मया त्वं कापालिकेन नभोऽङ्गणे उच्छाल्यमानो दृष्टः । ततोऽधः पतन्मया यत्नेन करसंपुटे गृहीत्वा रक्षितः । अथाधुनाह दर्वारमारशरघातपीडितास्मि । त्वं मां रक्ष रक्ष । तबाहं शरणं प्रपन्नास्मि । मदीयोऽयं परिवारस्तव किंकरोऽस्ति । भोः सुभगाग्रिम मया सह दिव्यान् भोगान् यथेच्छं मुंश्व" । देव्यास्तद्वचः श्रुत्वा नृपाङ्गजो बभाण-"अहो देवि शृणु । अहं भूमिगोचरः। त्वं देवाङ्गना । आवयोः संयोगः कथं योग्यः ? तथापि शृणु, विषयाःप्रान्ते दारुणदुःखदायकाः। विपयाभिभूता जीवा नरकतिर्यग्निगो दषु भ्रमन्ति । सिद्धान्तेऽप्युक्तं १ त्वां शत्रुमिव हन्मि इति वा पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy