________________
*
चरित्र
'भो भीम त्वया प्रतिपन्ने व्रते निश्चलेन भाव्यं । भीमोऽप्याह-'तवादेशः प्रमाणं मे'। अथ मुनि नत्वा पर्षनिजस्थानं गता। भीमोऽपि देवपूजादयादानादिकमगण्यपुण्यं कुर्वन् युवराजपदवीं भुनक्ति ।
एकदा निजधाम्नि कुमारो मित्रसंयुतः क्रीडति । तदा तत्रैकः कापालिकोऽभ्यागात् । आशीर्वादवचःपूर्वमुपविश्य नृपाङ्गजं भीममेकान्तं याचित्वेदमाह---" भो भीम पराक्रमपरोपकारक शृणु, मम भुवनक्षोभिणी नाम वरविद्यास्ति । तस्या द्वादश वर्षाणि जातानि । मया पूर्वसेवा कृता । अधुना चोत्तरसेवां प्रेतवने गत्वा एष्यत्कृष्णचतुर्दशीदिने कर्तुकामोऽस्मि । अतः करणात् भो महासच त्वमुत्तरसाधकोऽपि चेद्भवसि, तदा मे विद्या सिध्यति"। राजसूस्तच्छ्रुत्वा मनसीदं चिन्तयति-'अनेन विनाशिनाऽसारेण शरीरेण कस्यापि गुणो भवेत् तदा मया किं नार्जितं ?' इति संचिन्त्य तद्वचः प्रतिपन्न । पुनः पाखंडी पाह-" भोः कुमार दश-18 भिधौः कृष्णचतुर्दशी एष्यति, तावन्त्यहानि तव पार्श्वे स्थातव्यं मया" । ततः कुमारेणानुज्ञातस्त्र स्थितः । कुमारेण सह भोजनं
कुरुते, गोष्ठिं च कुरुते । तत एकान्ते मंत्रिसुतोऽवादीत्-" स्वामिन् पाखंडिना सह तव का गोष्टी तवेदं न युक्तं । दुर्जनसंगः | कालकूटमिव मारयति" । कुमारः प्राह-“भो मित्र सत्यमेतत्वयोदितं । किंतु मया दाक्षिण्येन प्रतिपनं वचः । तेन निवाह एव
श्रेयान्"। पुनः पुनर्मित्रेण निवारितोऽपि भीमः कदाग्रहं नामुचत् । क्रमेण सैव कृष्णचतुर्दशी समायाता । तदा रजनीपहरैकानपान्तरं कपालिना साधं वीरवेषधरः कुमारो निर्भयः श्मशानं प्रति चलितः। तत्र कपालिमंडलमालिख्य कामपि देवतां स्मृत्वा कुमापारस्य शिखाबन्धं कर्तुमुद्यतः । तावभीमो जगौ—'अहो मम कः शिखावन्धः, सचमेव शिखाबन्धः । इत्युक्त्वा भीमः सञ्जखड्गः
M पञ्चानन इव तदन्तिके साहसैकरसिकः संस्थितः । तदा पाखंडिना चिन्तितं-'अस्य शिखाबन्धच्छलं व्यर्थ जातं, पराक्रमेणैवास्य
HONE
॥३१॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org