________________
तद् दृष्ट्वा सचिवोऽवादीत् - 'नौरारुह्यतां कोऽपि सुरस्तवाग्रेऽदः प्रवहणं ढौकते' । नृपस्तत्रारोढुं क्रमं यावदुत्क्षिपति तावन्नो मेघो नापि गर्जितं । तथैव स्वस्थावस्थं स्वं पश्यति । गीतनृत्योत्सवादिभिः सर्वलोकं मुदितं वीक्षते । दैवज्ञ वद, किमिदमाश्वर्यं ? ' इति भूभुजा पृष्ठे निमित्तज्ञः प्राह - " राजेन्द्र मया तव विद्याच लेनेदमिन्द्रजालं दर्शितं" । नृपेण तस्य तोषाद्बहुद्रव्यं दत्त्वा स विसर्जितः । राजा तदिन्द्रजालं दृष्ट्वा राज्यविरक्तो जातो मनसीति चिन्तयामास - “ अहो यादृशमिन्द्रजालं दर्शितं तादृशं सर्व स्वरूपं संसारस्य तारुण्यस्नेहायुर्विभवादिकं । अपवित्रोऽयं कायः । यतः -
रसासृङ्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम् । अशौचानां पदं कायः शुचित्वं तस्य तत्कुतः ॥ १ ॥ यत्र जातस्तत्र रता ये पीतास्ते च मर्दिताः । अहो लोकस्य मूढस्य वैराग्यं किं न जायते ॥ २ ॥ कोऽहं कस्मिन् कुत आयातः का मे जननी को मे तातः । अतिपरिभाषितसकल विचारः लोकोऽयं स्वप्नव्यवहारः ।। ३ ।।
आयुः सच्छिद्रकुंभस्थजलवद्गलनात्मकम् । लक्ष्मीवतस्फुरद्दीपकलिकेव चलाचला ॥ ४ ॥
अनित्येऽस्मिन् जगद्वृत्ते आत्मा मेऽधुना नो रज्यते । पूर्वजाचीर्ण यतिव्रतमहमाचरिष्यामि " । इति मनसि निश्चित्य हरिविक्रमकुमाराङ्गजं स्वपदे न्यस्य तिलकाचार्यगुरुसमीपे श्रमणो जातः । सोऽहमेव । इदं मम वैराग्यकारणं " । पुनरपि मुनिराख्यत्
Jain Education International
For Personal & Private Use Only
-964
www.jainelibrary.org