________________
३० ॥
प्रच्छादयिष्यति । एवं वदतस्तस्य तदभ्रखंडमंबरे सर्वत्र व्याप्तं । आस्थानलोकः सर्वोऽपि स्वस्थानं गतः । नाटकं विसर्जितं । तदा सहसैवांबरे तथा गर्जारवो जातो यथा मही प्रतिशब्देन बुंबारवं कुरुते भीतेव । पुनस्तडिद्दंडा उद्दंडाः स्फुरन्ति तां महीं ग्रमितुमित्र मुशलधाराभिर्धनो वर्षितुं नृपप्रमुखनराणां पश्यतामारेभे । क्षणेन पयसा व्याप्तं । पुरे हाहारवो जातः । जना आक्रन्दिरे । महान | पुरक्षोभोऽजनि । नीरं कुत्रापि न माति । नृपोऽमात्यो निमित्तज्ञ एते त्रयोऽप्येकस्मिन् सप्तभूमिकावासे चटिताः । नृपः पौरजनक्रन्दं | शृण्वन् दुःखी भवति । नीरं क्रमेण सप्तमभूमिकायां प्राप्तं । तद्वीक्ष्य भूपतिः प्राह - "अस्माकमकृतधर्माणां कष्टसंकटमागतं । सुकृतं किञ्चिन्न कृतं मया । ममायुः क्षीणं । अहो मया विषयासक्तचेतसा श्रीजिनेन्द्र भाषितधर्मो नो चक्र | हा मया सुधा जन्म हारितं । यतः -
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदद्धं गतं, तस्यार्धस्य परस्य चार्धमपरं वालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखकलितं चायुः परिक्षीयते, जीवं वारितरंगचञ्चलमहो सौख्यं कुतः प्राणिनाम् ॥
स्तुवृक्षार्थं मया कल्पद्रुहरितः । काचखंडकृते मया चिन्तामणिहरितः । मयामूढेनासारसंसारकृते धर्मो हारितः । अथाहं किं करोमि ? । क्व गच्छामि ? । इति विचिन्त्योवाच - "अरिहंता सरणं मज्झ सिद्धा सरणं मज्झ, साहवो सरणं मज्झ, केवलिपनत्तो धम्मो सरणं मज्झ " । इत्थं नृपस्य विलपतो नीरं निकटमागतं । ततो नृपो हृदि नमस्कारं चिन्तयति । तावत्प्रवहणमेकं संमुखमागतं ।
१ जीवे वारितरंगवुसमे इत्यपि पाठः ।
२ स्नुहीवृक्षो भाषायां 'थोर' इति प्रसिद्धः ।
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ३० ॥
www.jainelibrary.org