________________
तदा भीमकुमारो मुनीश्वरं पप्रच्छ-प्रभो युष्माकं नवं वयः । अस्मिन् वयसि किं विरागकारणं ?' इति पृष्टे मुनीश्वरोऽप्यु*वाच-" भीम श्रुणु
कुंकणदेशे सिद्धपुरं नाम नगरं । तत्र भुवनसार इति नाम्ना पार्थिवोऽस्ति । सोऽन्यदास्थानस्थितोऽस्ति । तावद्दाक्षिणात्या 2 नृत्यकारका आययुः । तैः समतालमृदंगादिकं तालच्छन्दानुरागवर्तनं तातादेंगद्रेगतिधपमपोधोंताथंगनिथंगनिधिधिकटिधिधिकटिपूर्वकमित्याद्यालापसुन्दरं कृत्वा प्रेक्षणीयं समारब्धं । आस्थानस्थो नृपस्तद् द्रष्टुं लयलीनः प्रवृत्तवान् । अथ द्वारपालेन विज्ञप्तं-"प्रभो? |* अष्टांगनिमित्तवित् कोऽपि नैमित्तिकः समागतोऽस्ति । भवतां दर्शनं कांक्षति"। नृपतिः प्राह-'कोऽयमवसरः ? इदमीदृशं नाटकं | सुराणामपि दुर्लभं विलोक्यते ' । तदाऽमात्येनोक्तं--' स्वामिन्मैवं वद । नाटकं सुलभं । अष्टांगनिमितज्ञः पुरुषो दुर्लभः । ततो ४ा नपस्यादेशाद्वेत्रिणा निमित्तज्ञो मध्ये मुक्तः । स पुस्तिकाकरः सदाकृतिः श्वेतवस्त्रो नृपाग्रे समागतः । नरेन्द्राय मंत्रोच्चारपूर्वकमाशी| दिं दत्वा यथास्थानं समुपविष्टः । स राज्ञा भापितः -'भो निमित्तज्ञ कुशलमस्ति ते ?' । तदा निमित्तज्ञो दीनवाचाऽब्रवीत्'स्वामिन् तादृशं कुशलं यादृशं वक्तुं न शक्यते ' । सशंकितो नपोवादी-'किमभ्रं पतिष्यति । स प्राह -'हे प्रभो? त्वया
यद गदितं तत्सत्यमेव । पुनरादराद्राजा साशंकेन भणितं-'हे सुन्दर यचया ज्ञानेन ज्ञातं तन्निःशकं हि । नैमित्तिकः प्राह-- ही "स्वामिन् किंबहुना कथनेन ? तथापि सत्यमुच्यते, मुहूर्तानन्तरं मुशलममाणधाराभिर्धाराधरो धरणीतले तथा वर्षिष्यति यथा
प्रासादमन्दिर दि सर्व जलमयमेकार्णवाकारं भविष्यति" । तदा सर्वेऽप्यास्थानस्था नराः ससंभ्रमाः संजाताः । तदोत्तरोऽनिलः सहसा प्रादुर्बभूव । ईशान्यां कच्चोलमुखमात्रमभ्रपटलं प्रकटीजातं । निमित्तज्ञ ऊचे-'भो जनाः पश्यत पश्यत , इदमभ्रकं सर्व व्योम
For Personal & Private Use Only
Lain Education international
library.org