________________
इत्यादि बहुधा गुरुप्रणीतां धर्मदेशनां सम्यग् निशम्य मालतलन्यस्तकरकमलकुड्मलो नृपो नत्वा मुदा विज्ञपयामास'प्रभोऽहं यतिधर्मेऽशक्तस्तस्मात्प्रसद्य मम गृहिधर्मो दीयता' । गुरुणा नृपतेः सम्यक्त्वमूलो द्वादशवतरूपो धर्मो दत्तः । नृपस्तं धर्म || | सम्यक् प्रतिपन्नवान् भीमकुमारोऽपि तां देशनां श्रुत्वा जातश्रद्धोऽभूत् । तं भीमं योग्यं ज्ञात्वा पुनर्मुनीन्द्रोऽपि प्रोवाच| भीम श्रृणुधर्मस्य दया जननी जनकः किल कुशलकर्मविनियोगः । श्रद्धाऽतिवल्लभेयं सुखानि निखिलान्यपत्यानि॥१५
अतः कारणाद् भीम त्वया दया कार्या । निरपराधानां जीवानां हिंसा न कार्या । मृगयादौ सर्वथाऽभ्यासो न कार्यः । ततो| भीमो निरपराधजीवानां वधप्रत्याख्यानं करोति । सम्यक्त्वमपि प्रतिपन्नवान् । पुनर्मुनिरुवाच-कुमार त्वं धन्यः । तव नवे वयसि | पुराणवयसां मतिरस्ति' । भीमस्य स्थिरीकरणार्थ पुनर्मुनिरवक् । “गतापराधजीवानां हिंसा न कार्या इत्यत्रोदाहरणं श्रृणु, तथाहि। केपि पद् पुरुषा ग्रामविघाताय चलिताः। तेष्वेकोब्रवीत्-द्विपदं चतुष्पदं सर्वमेव हन्तव्यं । द्वितीयः प्राह-'पशुवधेन कि प्रयोजनं ? मनुष्या वध्या' । तृतीयः प्राह-'नरा हन्तव्याः, न तु नार्यः। तुर्येणाभाणि-'सायुधा नरा हन्तव्याः न निरायुधाः । पञ्चमोऽप्याह-'ये आत्मनो घ्नन्ति ते हन्तव्याः' । षष्ठः प्राह-'कोऽपि न हन्तव्यः, सारवस्त्वेव ग्राह्य' इत्येतेषां मनसो भिन्नतया 7 कृष्णनीलकापोततेजःपद्मशुक्ललेश्याभिधा लेश्या जाताः । इति ज्ञात्वा शुक्ललेश्या धार्या । यतः
उत्तमा लघुकर्माणः स्तोकादप्युपदेशतः । कुप्रवृत्तनिवर्तन्ते यथा भीमकुमारकः ।। १॥
॥ २९॥
in Education International
For Personal & Private Use Only
'iww.jainelibrary.org