SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ܢܘ %%% तस्मिन् व्रते पञ्चातिचारास्त्याज्याः । ते चेमे - वधो बन्धश्छविच्छेदोऽधिकभाराधिरोपणम् । प्रहारोऽन्नादिरोधश्च हिंसायां परिकीर्तिताः ॥ १ ॥ व्याख्या - वधश्चतुष्पदादीनां निर्दयं ताडनं १ । बन्धो रजवादिभिर्निर्दयं नियंत्रणा २ । छविच्छेदः कर्णनासागलकंबलपुच्छादिकर्तनं ३ | अतिभारः शक्त्यनपेक्षया गुरुभारारोपणं निर्दयत्वेन दंड दिप्रहारः ४ । भक्तपाननिषेधः ५ । एते पञ्चातिचारास्त्याज्याः । यः स्वयं जीवान् रक्षति, अपरैरपि रक्षयति स भीमकुमारवदद्भूतां समृद्धिं प्राप्नोति तथाहि अत्रैव भतक्षेत्रे कमलपुरं नाम्ना नगरं वरीवर्ति । तत्र प्रजापालको न्यायनिष्ठो हरिवाहनो राजा राज्यं करोति । तस्य मदनसुन्दरी नाम शीलालंकारभूषिता पट्टराज्ञी वल्लभाऽस्ति । साऽन्यदा सुखसुप्ता सिंहमंकस्थं स्वप्ने दृष्ट्वा राज्ञे न्यवेदयत् । राजापि तं निशम्याभिननन्द । ततः प्रभातकृत्यानि कृत्वाऽऽस्थानस्थितो नृपः स्वमशास्त्रविशारदं द्विजमाकार्य तत्र दत्तासनसमासीनं पप्रच्छ-' हे निमित्तज्ञ ! पूर्व स्वमानां फलानि वद । द्विजः प्राह - " नरेन्द्राकर्णय, यथैवोक्तं आरोहो गोवृषे वृक्षे शैलप्रासादहस्तिषु । रोदनागम्यगमने स्वप्ने मृत्युः प्रशस्यते ॥ १ ॥ वस्त्रान्नफलतांबूलपुष्पदीपदधिध्वजाः । सद्रत्नचामरे छत्रं मंत्रलब्धा धनप्रदाः ॥ २ ॥ देवस्य दर्शनं धन्यमर्चनं च विशेषतः । राज्यलाभः पयःपानं श्रिये चार्केन्दुदर्शनम् ॥ ६ ॥ तैलकुंकुमलिप्तं स्वं गीतनृत्यपरं तथा । हसन्तं वीक्ष्य दुःखाय पंडितोक्तं तु नान्यथा ॥ ४ ॥ Jain Education International For Personal & Private Use Only चरित्र ॥ २८ ॥ jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy