________________
*:~:~&&&
तं - ' बन्धो त्वया किमुपार्जितं १' । लघुरुवाच - " मया साधर्मिकवात्सल्यादिषु बहुद्रव्यव्ययः कृतः, इयमेव मुख्यनवलिका ज्ञेया" । ज्येष्ठेनोक्तं — 'विलोकय, मया तु बहुधनमुपार्जितं । लघुनोक्तं - "हे बन्धो त्वया बहुधनं समुपार्जितं परं निर्गमितं मत्पुण्यैः प्राप्तं" । ततः पुण्यं कृत्वा सुखिनौ जातौ । परलोके देवत्वं प्राप्तौ । अतो भो भविकाः शृण्वन्तु—यथेकया काकिण्या रत्नसहस्रं | हारितं तथा स्रक्चन्दनवनिता पुत्रधनादिसुखैः काकिणीरूपैः किं सहस्ररत्नसमं मोक्षसुखं हार्यते जीवैः । तस्माद्भविकैर्धर्मे यत्नो विधेयः । | प्रमादः सर्वथैव त्याज्यः । यतः -
प्रमादः परमद्वेषी प्रमादः परमो रिपुः । प्रमादो मुक्तिदस्युश्च प्रमादो नरकायनम् ॥ १ ॥
अत एव धर्मः कार्यः । स च द्वेधा यतिगृहस्थ भेदेन । तत्र यतिधर्मो दुष्करः, श्राद्धधर्मेो द्वादशव्रतरूपः । तत्राणुत्रानि पश्च-अहिंसा प्राणातिपातविरमणं, मृषावादविरमणं, अदत्तादानविरमणं, मैथुनविरमणं, परिग्रहविरमणमिति पञ्चाणुत्रतानि । प्रथमप्राणातिपात विरमणव्रतस्य फलं शास्त्रे उक्तं
आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगतः श्लाघ्यत्वमल्पेतरं, संसारांबुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ||१|| मनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके यः प्राणिष्वभयप्रदः ॥ २ ॥ कृमिकीटपतंगेषु तृणवृक्षादिकेष्वपि । दयां सर्वत्र कुर्वति यथात्मनि तथाऽपरे ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
**%%%%
www.jainelibrary.org