SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 45454545459 * यावत्स्वस्थमिदं शरीरमरुजं यावजरा दूरतो, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः। | आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् , संदीप्ते भवनेतु कूपखननं प्रत्युद्यमः कीदृशः॥१॥ तत एकदा ज्येष्ठभ्रात्रोक्तं-"अहं द्रव्योपार्जनार्थ देशान्तरे यास्यामि इदं गृहं धनं च सर्व तवायत्तमस्ति । यत्नो विधेयः' । इत्युक्त्वा स देशान्तरे चचाल । रोहणाद्रौ गत्वा व्यापारं करोति । पञ्चदश वर्षाणि जातानि । सहस्रकसंख्यया रत्नानि समुपार्जितानि । तेन चिन्तितं-'अथाहं निजधाम्नि यामि । व्यापारेणालं' इत्थं निश्चित्य स्वग्राम प्रति चलितः । रत्नानां नवलिका कृत्वा कटौ बद्ध्वा संनद्धः सुसार्थेन सह स्वनगरासन्नग्रामे समेतः तत्र भोजनार्थ स्थितः। तत्रैकस्मिन्नापणे नवलिकां मुक्त्वा भोजनार्थ अन्नादिसामग्री गृहीत्वा सरसि गतः । करे चैका कपर्दिकाऽस्ति । तां भूमौ मुक्त्वाऽन्नं पक्त्वा भुक्त्वा चापणानवलिकां गृहीत्वा कटौ बवा स्वनगरं प्रति चलितः । कपर्दिका तत्रव सरस्तटे मुक्ता सा विस्मृता । तस्य मार्गे गच्छतो दिनशेषोऽस्ति । अतः शीघं याति । इतश्च सा कपर्दिका स्मृता । 'अथाहं किं करोमि ? कपर्दिका विस्मृता । याम्यहं ' । इति निश्चित्य तत्र पिष्पलतरोरधो गर्ता कृत्वा तत्र नवलिकां मुक्त्वा कपर्दिकाग्रहणार्थ पश्वादलितः। तत्र गत्वा कपर्दिकां गृहीत्वा यावत् पश्चाद्वलति तावन्निशा जाता। ततस्त-| स्मिन्नेव ग्रामे स्थितः । इतश्च कोऽपि काष्ठवाहकः तद्वृक्षोपरिस्थितोऽस्ति । तेन गर्तायां नवलिकां क्षिपन् स दृष्टः । पश्चात्तां कपयित्वा | स्वालये समानीय दीपकोद्योते सर्व विलोकयति । मूढः किमपि नो वेत्ति । तेन मनसि विचारित-" किमेते काचशकलाः १ एभिर-1 | हं किं करोमि ? प्रभाते कस्यापि दास्यामि । सोऽपि मे किंचिदनादिकं दास्यति" । इति विमृश्य काष्ठभारकं शिरसि गृहीत्वा टू तां नवलिकां साभिधानां वस्त्रांचले बद्ध्वा नगरसंमुखं चलितः। ARROCREAR RC in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy