SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ततस्तस्य कुमारस्य युवराजपदवी दत्ता । कियता कालेन नृो गुरुसंयोगेन संवेगरंगं प्राप्तः । ततः किरणवेगपुत्रस्य राज्यं दचा सचिवानित्यभाषत-" भोः प्रधाना भवतामयं स्वामी । एतस्याहा स्वपि नोल्लंघनीया । मोः सेवका अयं किरणवेगो नृपतिर्मदज्ज्ञातव्यः" । ततः पित्रा किरणवेगनृपोऽप्युक्त:-"महाराज त्वयाप्ययं राजलोकः पालनीयः। महत्यप्यपरावे बाह्यवृत्त्या रोषो विधेयः । समुद्रवन्मर्यादा नोल्लंघनीया। पंडितैः सह संगमः कार्यः । तादिव्यसनानि त्याज्यानि । तथाऽगुणेषादरः कार्यः। स्वाम्यमात्यराष्ट्रदुर्गकोशबलसुहृदात्मका सप्तांगराज्यलक्ष्मीः पालनीया । वत्स राज्यं नरकान्तं समस्ति । तत्रापि धर्मकार्ये यतितव्यं"एवंविधां शिक्षां दत्वाखि जनं क्षामयित्वा श्रुतसागरचारगश्रमणस्यान्तिके राजा चारित्रमग्रहीत् । चारित्रं निरतिचारं प्रतिपाल्य पर्यन्तेऽनशनं विधाय केवलज्ञानं प्राप्य मुक्तिमवाय । ____ अथ किरणवेगो भूपतिः पैतृकी राज्यसंपदं प्राप्य नीतिशास्त्रानुसारेण प्रजां पालयामास । यतः ज्ञाने मौनं क्षमा शक्तो त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥१॥ " तथा च निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥१॥ अनासक्तमना विषयोद्भवं सुखं नृपः सिषेवे । तस्य किरणवेगनृपस्य पद्मावतीसमुद्भवो धरणवेग इति नाम्नाङ्गजो बभूव । तस्य in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy