SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयः सर्गः। चरित्र *HARKHARAA सरस्वती शासनदेवतामहं, प्रणम्य भावाच्च गुरोः क्रमाम्बुजम् । द्वितीयसर्ग प्रवदामि सामतः, कर्णामृतं देवगुरुप्रसादतः॥१॥ अथ पूर्वमहाविदेहे सुकन्छविजये वैताढ्यपर्वते तिलकपुरी नाम्ना नगरी धनैराढयास्ति । उत्तुंगचंगरंगधवलप्रासादश्रेण्युपशोभिता सर्वदाऽनेकविद्याधरराजिराजिता एवंविधा नगरी चास्ति चतुरशीतिचतुष्पथहट्टश्रेण्युपशोभिता । तत्र विद्युद्गतिनामा सक| लविद्याधरनरेश्वरो राजास्ति । स कीदृशः ? निजयशःपयसा प्रक्षालिताशेषदिग्मुखो निजाचारेण जनानां रक्षणेन च शिष्टप्रशिष्टहटन्यायनिष्ठ इति ख्यातिमवाप । तस्य राज्ञः पट्टराज्ञी तिलकावती नाम बभूव । सापि कीदृशी ? रूपलावण्यसौभाग्यादिगुणैरन्ययोषितां तिलकामा । विद्युद्गतिविद्याधरनरेश्वरस्तया तिलकावत्या राज्या सार्ध मनोवाञ्छितं वैषयिकं सुखं बुभुजे ।। इतश्चाष्टमदेवलोकात् गजजीवदेवश्युत्वा तिलकावत्या राज्या उदरे समवातरत । सा राज्ञी शुभदिने शुभलग्नसमये द्वात्रिंशल्लक्षणधर| पुत्रयजीजनत् । पित्रा च तस्य बालकस्य किरणवेग इत्यभिधा निर्म मे । स किरणवेगकुमारः पञ्चभिर्धात्रीभिाल्यमानः सन् क्रमेण व्यवर्धिष्ट । लेखशालायां विद्याभ्यासं करोति । शास्त्रशस्खकलादिद्वासप्ततिकलाप्रवीणः क्रमेण यौवनमारुरोह । अश्वत्वारिंशत्सहस्रविद्या-121 ॥ २५ ॥ पारीणो जातः । तदा विद्युद्गतिनृपतिः कुमारं महासुवंशसामन्तराजकन्यया पद्मावत्या सह महा महामहोत्सवेन एयणाययत् । % in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy